________________
S 448
४६ विश्वामित्रः ।
अथ खलु सुधनः श्रेष्ठिदारको त्रिदशेन्द्र भवनादवतीर्य अनुपूर्वेण येन कपिलवस्तुनि महानगरे विश्वामित्रो दारकाचार्यस्तेनोपजगाम । उपेत्य विश्वामित्रस्य दारकाचार्यस्य पादौ शिरसाभिवन्द्य विश्वामित्रं दारकाचार्यमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य विश्वामित्रस्य 5 दारकाचार्यस्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य अनुत्तरायां सम्यक् संबोधौ चित्तमुत्पादितम् । न च जानामि - कथं बोधिसत्त्वेन वोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो वोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्यः–कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । एवमुक्ते विश्वामित्रो दारकाचार्यः सुधनं श्रेष्ठिदारकमेतदवोचत् - अयं कुलपुत्र शिल्पाभिज्ञो नाम 10 श्रेष्ठिदारको वोधिसत्त्वाल्लिपिज्ञानं शिक्षितः । एतमुपसंक्रम्य परिपृच्छ । एष ते निर्देक्ष्यति यथा बोधिसत्त्वचर्यायां शिक्षितव्यम्, यथा प्रतिपत्तव्यम् ॥ ४४ ॥