________________
४५.०] ४५ सुरेन्द्राभा।
३५१ विगतनिवरणानामनिद्रागमानां विगतस्त्यानमिद्धानां प्रस्रब्धकायसंस्काराणां सर्वधर्मस्वभावानुबोधसुविशुद्धानां दशवलविशुद्धिबोधयितॄणां चर्या ज्ञातुं गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, कपिलवस्तुनि महानगरे विश्वामित्रो नाम दारकाचार्यः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यन् , कथं प्रतिपत्तव्यम् ।।
अथ खलु सुधनः श्रेष्ठिदारकः तुष्ट उदग्र आत्तमनाः प्रीतिसौमनस्यजातोऽचिन्त्य । कुशलमूलवेगसंवर्धितः सुरेन्द्राभाया देवकन्यायाः पादौ शिरसाभिवन्द्य सुरेन्द्राभां देवकन्यामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य सुरेन्द्राभाया देवकन्याया अन्तिकाप्रक्रान्तः ॥४३॥