Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
गण्डव्यूहसूत्रम्।
[४७.०भवनमण्डलविज्ञप्तिव्यूहं नाम प्रज्ञापारमितामुखमवक्रान्तम् । छकारं परिकीर्तयत उपचयगर्भप्रयोगं चारित्रच्छत्रमण्डलभेदं नाम प्रज्ञापारमितामुखमवक्रान्तम् । स्मकारं परिकीर्तयतः सवर्वद्धदशर्नदिगभिमुखावर्त नाम प्रज्ञापारमितामुखमवक्रान्तम् । हकारं परिकीर्तयतः सर्वसत्त्वाभव्यावलोकनबलसंजातगर्भ नाम प्रज्ञापारमितामुखमवक्रान्तम् । सकारं परिकीर्तयतः 5 सर्वगुणसागरप्रतिपत्त्यवतारविगाहनं नाम प्रज्ञापारमितामुखमवक्रान्तम् । धकारं परिकीर्तयतः सर्वधर्ममेघसंधारणदृढसागरगर्भ नाम प्रज्ञापारमितामुखमवक्रान्तम् । ठकारं परिकीर्तयतः सर्ववुद्धप्रणिधानदिगभिमुखगमनं नाम प्रज्ञापारमितामुखमवक्रान्तम् । णकारं परिकीर्तयतः चक्राक्षराकारकोटिवचनं नाम प्रज्ञापारमितामुखमवक्रान्तम् । फकारं परिकीर्तयतः सर्वसत्त्वपरिपाककोटीगतमण्डलं नाम प्रज्ञापारमितामुखमवक्रान्तम् । स्ककारं परिकीर्तयतो भूमिगर्भा10 सङ्गप्रतिसंवित्प्रभाचक्रस्फरणं नाम प्रज्ञापारमितामुखमवक्रान्तम् । स्यकार परिकीर्तयतः
सर्वबुद्धधर्मनिर्देशविषयं नाम प्रज्ञापारमितामुखमवक्रान्तम् । श्वकारं परिकीर्तयतः सत्त्वगगनधर्मघननिगर्जितनिर्नादस्फरणं नाम प्रज्ञापारमितामुखमवक्रान्तम् । टकारं परिकीर्तयतः सत्त्वार्थनैरात्म्यकार्यात्यन्तपरिनिष्ठाप्रदीपं नाम प्रज्ञापारमितामुखमवक्रान्तम् । ढकारं परिकीर्त
यतो धर्मचक्रसंभेदगर्भ नाम प्रज्ञापारमितामुखमवक्रान्तम् ॥ 15 इति हि कुलपुत्र मम मातृकां वाचयत एतानि द्वाचत्वारिंशत् प्रज्ञापारमितामुख
प्रमुखान्यप्रमेयासंख्येयानि प्रज्ञापारमितामुखान्यवक्रान्तानि । एतस्य अहं कुलपुत्र शिल्पाभिज्ञावतो बोधिसत्त्वविमोक्षस्य लाभी । एतमहं जानामि । किं मया शक्यं सर्वलौकिकलोकोत्तरशिल्पस्थानपारमिताप्राप्तानां बोधिसत्त्वानां चयां ज्ञातुं गुणान् वा वक्तुम् ? यथा
सर्वशिल्पस्थानप्रवेशेषु सर्वलिपिसंख्यागणनानिक्षेपप्रवेशेषु सर्वमन्त्रौषधिविधिज्ञान प्रयोगप्रतिs sz1 20 वेधेषु सर्वभूतग्रहज्योतिषापस्मारकाखोर्दवेतालप्रतिष्ठानेषु सत्त्वधातुचिकित्साभैषज्यसंयोगB 180
ज्ञानेषु धातुतन्त्रसंयोगप्रयोगेषु सुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाललोहितकमुसारगल्वकेशरश्रीगर्भाश्मगर्भसर्वरत्नसंभवोत्पत्तिगोत्राकरमूल्यज्ञानेषु उद्यानतपोवनग्रामनगरनिगमराष्ट्रराजधान्यभिनिर्हारेषु मृगचक्राङ्कविद्यासर्वलक्षणनिमित्तभूमिचालदिग्दाहोल्कापातक्षेमाक्षेमसुभिक्ष
दुर्भिक्षसर्वलौकिकावर्तनिवर्तप्रवेशेषु सर्वलोकोत्तरधर्मविभक्तिसूचनादिनिर्देशप्रवेशतत्त्वानुगम25 ज्ञानेषु नास्त्यावरणं वा विमर्शो वा विमतिर्वा संदेहो वा संशयो वा संमोहो वा धंधायितत्वं वा व्याबाधिकं वा अवसादनं वा अज्ञानं वा अनभिसमयो वा ॥
गच्छ कुलपुत्र, इयमिहैव मगधविषये केवलके जनपदे वर्तनके नगरे भदोत्तमा नामोपासिका प्रतिवसति । तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥ 30 अथ खलु सुधनः श्रेष्ठिदारकः शिल्पाभिज्ञस्य श्रेष्ठिदारकस्य पादौ शिरसाभिवन्ध शिल्पाभिज्ञं श्रेष्ठिदारकमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य शिल्पाभिज्ञस्य श्रेष्ठिदारकस्यान्तिकात्प्रक्रान्तः ॥ ४५ ॥
१B°विचयं.

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491