Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
B 101
३१२ गण्डव्यूहसूत्रम् ।
[४३.२२रत्नजालसंछादितव्यूह महामणिरत्नराजव्यूहगर्भमध्यप्रतिष्ठापितसिंहासनं पञ्चकन्याशतरत्नसूत्रदामपरिगृहीतं गगनासक्तवायुसमजवाजानेयाश्वसहस्रयुक्तम् अनुपूर्वपरिणतचारुदर्शनेन श्वेतवैडूर्यमणिराजमयच्छदनेन विमलाप्रमाणप्रभेण अचिन्त्याद्भुतसर्वरत्नविरचनाभक्तिविन्यासचित्रसर्वाकारव्यूहोपशोभितेन नीलवैडूर्यमणिराजोद्विद्धदण्डेन महता रत्नच्छत्रेण प्रियता बहु। प्राणिशतसहस्रपरिवृतदिव्यमधुरमनोज्ञनि|पैस्तूर्यशतसहस्रैः प्रवाद्यमानैः महद्भिः पुष्पमेधैरभिप्रवर्षद्भिः सुरभिदिव्यगन्धधूपघटिकानियुतशतसहस्रैः प्रधूप्यमानैः । तस्य तथा ब्रजतोऽष्टवा मार्गः समवस्थिपत निम्नोन्नतविगतोऽपगतशर्करकठल्लोत्सदो जातरूपरजतसर्वरत्नराजधातुसंचितभूमितलप्रतिष्ठानः सुवर्णवालिकासंस्तीर्णो विचित्ररत्नपुष्पाभिकीर्णः उभयतो रत्नवृक्षपतिसमलंकृतविचित्ररत्नवेदिकापरिवृतः । उपरि रत्नकिङ्किणीजालसंछन्नो 10 विविधरत्नविततप्रतिमण्डितोऽनेकरत्नध्वजपताकापट्टशतसहस्राभिप्रलम्बितोपशोभितव्यूहः उभयतो नानारनव्योपैकपतिविरचितव्यूहः ॥
तत्र केषुचिद्रतव्योमकेषु विविधरत्नपरिपूर्णानि रत्नभाजनानि स्थापितान्यभूवन् याचनकसंघप्रतिपादनकार्थम् । क्षेषुचिद्व्योमकेपु सर्वरत्नाभरणविधयः स्थापिता अलंकारार्थिनां याचकानामलंकरणार्थम् । केषुचिढ्योमकेषु चिन्तामणिरत्नानि स्थापितानि सर्वसत्त्वानां 15 सर्वाभिप्रायपरिपूरणार्थम् । केषुचिद्व्योमकेपु सर्वाकारविविधान्नपानरसपरिपूर्णानि भोजनानि
स्थापितानि, यस्य येनार्थः तस्य तं प्रतिपादनार्थम् । केषुचिढ्योमकेषु सर्वाकारपरमखादुमनोज्ञवर्णगन्धरसस्पर्शाः दिव्यभक्तविधयः स्थापिताः। केषुचिद्व्योमकेषु विचित्ररसाखादा दिव्यसर्वफलविधयः स्थापिताः । केषुचिव्योमकेषु विविधोज्ज्वलविचित्ररङ्गरक्तानि नानाचित्रभक्तिविन्यासविराजितानि परममहार्हाणि सूक्ष्माणि सुकुमारकान्तवर्णानि दिव्यवस्त्रकोटी20 शतसहस्राणि स्थापितानि वस्त्रार्थिनां यथाभिप्रायपरिभोगार्थम् । केषुचिद्व्योमकेषु सर्वाकार
विविधदिव्यमनोज्ञवर्णगन्धाः सर्वगन्धविधयः स्थापिता अभूवन् विलेपनार्थिनां यथाभिप्रायपरिभोगार्थम् । केषुचिढ्योमकेषु सर्वोपकरणराशयः स्थापिता अभूवन् सत्त्वानां यथाशयाभिप्रायपरिभोगार्थम् । केषुचिढ्योमकेषु नार्योऽभिरूपाः प्रासादिका दर्शनीया विविधचारु
रूपवेशा विचित्रमनोज्ञवस्त्रसंधिताः सर्वाभरणखलंकृता विविधविलेपनभक्तिविन्यासप्रति25 मण्डितोपशोभितशरीराः सर्वस्त्रीशिल्पमायाकलाविधिज्ञाः स्थापिता अभूवन् ॥
तेन खलु पुनः समयेन तस्यामेव द्रुममेरुश्रियां राजधान्यां सुदर्शना नाम अग्रगणिकाभूद्राजपरिभोग्या । तस्याः सुचलितरतिप्रभासश्री म दारिकाभूदभिरूपा प्रासादिका दर्शनीया नातिदीर्घा नातिहखा नातिस्थूला नातिकृशा नातिगौरा नातिश्यामा
अभिनीलनेत्रा अभिनीलकेशी अभिरामवक्त्रा ब्रह्मखरा मधुरप्रियवादिनी प्राज्ञा सर्वकला80 विधिज्ञा सर्वशास्त्रकोविदा दक्षा अनलसा सगौरवा सप्रसादा मैत्रचित्ता अप्रतिघातबहुला अतृप्तिकरमनापदर्शना मन्दरागदोषमोहा हयपत्राप्यसंपन्ना मार्दवा ऋज्वी अशाट्या अमाया
१ प्रियता. २ B व्यामक throughout. ३ B om. चिन्तामणि.

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491