Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 383
________________ -४४.०] ४४ माया । ૨૭ जनेत्र्यभूवम् । तथा सर्वेषां भद्रकल्पिकानामनागतानां तथागतानां जनेत्री भविष्यामि । तद्यथा मैत्रेयस्य बोधिसत्त्वस्य तुपितभवनगतस्य च्युतिसंदर्शनकाले प्रवृत्ते सर्ववोधिसत्त्वोपपत्तिसंभवगर्भसंवासविकुर्वितसंदर्शनप्रभासायां रश्म्यामुत्सृष्टायां प्रभासितेष्ठ सर्वधर्मवानुनयतलेषु यावन्ति मम धर्मधातुनयतलानि चक्षुषोऽवभासमागमिष्यन्ति, येषु मैत्रेवेण बोधिसत्त्वन मनुष्यलोके मनुष्येन्द्रकुलेषु जन्मोपपत्तिसंदर्शनेन सत्त्वा विनयितव्याः तेप्यहं सर्वत्र बोधिसत्त्वजननी भविष्यामि । यथा च मैत्रेयस्य बोधिसत्त्वस्य, तथा सिंहस्य यो मैत्रेयस्यानन्तरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, तथा प्रद्योतस्य केतोः सुनेत्रस्य कुसुमस्य कुसुमश्रियः तिष्यस्य पुष्यस्य सुमनसो वज्रस्य विरजसः चन्द्रोल्काधारिणो यशसो वज्रशुद्धस्य एकार्थदर्शिनो सिताङ्गस्य पारंगतस्य रत्नार्चिः पर्वतस्य महोल्काधारिणः पद्मोत्तरस्य विष्ट - शब्दस्य अपरिमितगुणधर्मस्य दीपश्रियो विभूषिताङ्गस्य सुप्रयाणस्य मैत्रश्रियो निर्मितस्या- 1 निकेतस्य ज्वलिततेजसोऽनन्तघोपस्य अनिनेमस्य अभिनेत्रस्य विमतिविकिरणस्य परिशुद्धस्य सुविशालाभस्य यशःशुद्धोदितस्य मेघश्रियो विचित्रेभूतस्य सर्वरत्नविचित्रवर्णमणिकुण्डलस्य सागरमतेः शुभरत्नस्य अनिहतमल्लस्य परिपूर्णमनोरथस्य महेश्वरस्य इन्द्रश्रियोऽग्निश्रियः चन्दनमेघस्य सितविशालाक्षस्य श्रेष्ठमतेर्विभावितमतेरवरोपणराजस्योत्तापन राजमते र्विभूपितस्य विभूतेः केशरनन्दिन ईश्वरदेवस्य ईश्वरस्य उष्णीषश्रियो वज्रज्ञानपर्वतस्य श्रीगर्भस्य कनकजाल- 15 कायविभूषितस्य सुविभक्तस्य ईश्वरदेवस्य महेन्द्रदेवस्य अनिलश्रियो विशुद्धनन्दिनोऽर्चिष्मतो वरुणश्रियो विशुद्धमतेरग्रयानस्य निहितगुणोदितस्य अरिगुप्तस्य वाक्यनुदस्य वशीभूतस्य गुणस्य वैरोचनकेोर्विभवगन्धस्य विभोवनगन्धस्य विभक्ताङ्गस्य सुविशाखस्य सर्वगन्धाचिमुखस्य वज्रमणिविचित्रस्य प्रहसित नेत्रस्य निहतरागरजसः प्रवृद्धकायराजस्य वासुदेवस्य उदारदेवस्य निरोधनिम्नस्य विबुद्धेर्धूतरजसः अर्चिर्महेन्द्रस्य उपशमवतो विशाखदेवस्य 20 वज्रगिरो ज्ञानार्चिज्वलितशरीरस्य क्षेमंकरस्य औपगमस्य शार्दूलस्य परिपूर्णशुभस्य रुचिरभद्रयशसः पराक्रमविक्रमस्य परमार्थविक्रामिणः शान्तरश्मेरेकोत्तरस्य गम्भीरेश्वरस्य भूमिमतेरसितस्य घोषश्रियो विशिष्टस्य विभूतपतेर्विभूतभूतस्य वैद्योत्तमस्य गुणचन्द्रस्य प्रहर्षिततेजसो गुणसंचयस्य चन्द्रोद्गतस्य भास्करदेवस्य भीष्मयशसो रश्मिमुखस्य शालेन्द्रस्कधस्य यशसः ओषधिराजस्य रत्नवरस्य वज्रमतेः सितश्रियो निधतालयस्य मणिराजस्य महायशसो वेग - 25 धारिणोऽमिताभस्य महासनार्चिषो मोहधर्मेश्वरस्य निहतधीरस्य देवशुद्धस्य दृढप्रभस्य विश्वामित्रस्य विमुक्तिघोषस्य विनर्दितराजस्य वाक्यच्छेदस्य चम्पकविमलप्रभस्य अनवद्यस्य विशिष्ट - चन्द्रस्य उल्काधारिणो विचित्रगात्रस्य अनभिलाप्योद्गतस्य जगन्मित्रस्य प्रभूतरश्मेः स्वराङ्गशूरस्य करुणावृक्षस्य धृतमतितेजसः कुन्दश्रियोऽर्चिश्चन्द्रस्य अनिहितमतेरनुनयविगतस्य अनिलम्भमतेरुपचितस्कन्धस्य अपायप्रमथनस्य अदीनकुसुमस्य सिंहविनर्दितस्य 30 अनिहानार्थस्य अनावरणदर्शिनः परगणमथनस्य अनिलनेमस्य अकम्पितसागरस्य शोभन १ B विचित्रवृत्तस्य द्रुमराजस्य. २ Bom, विभावनगन्धस्य. S 442 S 443

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491