Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 382
________________ गण्डव्यूहसूत्रम् । [४४.०कुशलमूलैरेकव्यूहैरेकविमोक्षविहारिभिरेकज्ञानभूमिसंवासिभिरेकविकुर्वितनिर्यातैरेकप्रणिधानसमुदागतैरेकचर्यानिर्यातैर्धर्मकायपरिशुद्धैरनन्तमध्यरूपकायाधिष्ठानैःसमन्तभद्रबोधिसत्त्वचर्याप्रणिधिविकुर्वितनिर्यातैनागेन्द्रगर्भमणिकूटागारगतैः सागरनागराजपूर्वंगमैरशीत्या नागेन्द्रसहस्रैः सर्वलोकेन्द्रसहस्त्रैश्चाभिपूज्यमानो महता बोधिसत्त्वविकुर्वितेन सर्वतुपितभवनच्युतिसंदर्शनेन 5 एकैकस्मात्तुषितभवनात् सर्वलोकधातुप्रसृतचातुर्तीपोपपत्तिप्रतिलाभसंदर्शनेन अचिन्त्यसत्त्वपरिपाकोपायकौशल्यानुगतेन प्रमत्तसर्वसत्त्वसंचोदनेन सर्वाभिनिवेशोचालनेन महारश्मिजालप्रमुश्चनेन सर्वलोकान्धकारविधमनेन सर्वापायदुःखव्युपशमनेन सर्वनिरयगतिनिवर्तनेन सर्वसत्त्वपूर्वकर्मसंचोदनेन सर्वसत्त्वधातुपरित्रायणेन सर्वसत्त्वाभिमुखकायसंदर्शनेन तुषित भवनाच्छ्युत्वा सार्धं सपरिवारेण मम कुक्षौ प्राविशत् ॥ 10 ते सर्वे मम कुक्षौ त्रिसाहस्रलोकधातुविपुलेन यावदनभिलाप्यबुद्धक्षेत्रपरमाणुरजः समलोकधातुविपुलेन आक्रमविक्रमेण अनुविचरन्ति स्म । सर्वाणि च दशसु दिक्षु सर्वलोकधातुप्रसरेषु सर्वतथागतपादमूलेषु सर्वबोधिसत्त्वपर्षन्मण्डलानि प्रतिचित्तक्षणमनभिलाप्यानि मम कुक्षौ समवसरन्ति स्म बोधिसत्त्वगर्भावासविकुर्वितं द्रष्टुम् । चत्वारश्च महाराजाः शक्रयामसंतुषितसुनिर्मितवशवर्तिनश्च देवेन्द्राः ब्रह्मेन्द्राश्च गर्भावासोपगतबोधिसत्त्वमुप15 संक्रामन्ति स्म दर्शनाय बन्दनाय पर्युपासनाय धर्मश्रवणाय सांकय्यानुभावनाय । न चायं मम कुक्षिस्तावन्ति पर्षन्मण्डलानि प्रतीच्छन् विपुलीभवति । न चास्मान्मनुष्याश्रयादयं मम कायो विशिष्टतरः संतिष्ठते । तानि च तावन्ति पर्षन्मण्डलानि संप्रतीच्छति । सर्वे च ते देवमनुष्या नानाबोधिसत्त्वपरिभोगपरिशुद्धिव्यूहानपश्यन्।तत्कस्य हेतोः? यथापि तदस्यैव महाप्रणिधानमायागतस्य बोधिसत्त्वविमोक्षस्य सुभाषितत्वात् ॥ 20 यथा चाहं कुलपुत्र अस्यां भागवत्यां चातुर्कीपिकायां जम्बुद्वीपे बोधिसत्त्वं कुक्षिणा संप्रतीच्छामि, एवं त्रिसाहस्रमहासाहस्र लोकधातौ सर्वचातुर्दीपिकाजम्बुद्वीपेषु संप्रतीच्छामि अनेन च विकुर्वितन्यूहेन । न चायं मम कायो द्वयीभवति नाद्वयीभवति, न चैकत्वे संतिष्टते न बहुत्वे, यथापि नाम तदस्यैव महाप्रणिधानज्ञानमायागतस्य बोधिसत्त्वविमोक्षस्य सुभाषितत्वात् । यथा चाहं कुलपुत्र अस्य भगवतो वैरोचनस्य माता अभूवम् , तथा पूर्व25 काणामपि तथागतानामनन्तमध्यानां माता अभूवम् । यत्र बोधिसत्त्वो लोक उपपादुक उपापद्यत पद्मगर्ने, तत्राहं नलिनीदेवता भूत्वा बोधिसत्त्वं संप्रतीच्छामि । लोकश्च मां बोधिसत्त्वजननीति संजानौति । यत्रोत्सङ्गे प्रादुर्बभूव, तत्राहमस्य जनन्यभूवम् । यत्र बुद्धक्षेत्रे प्रादुर्भवति, तत्राहं बोधिमण्डदेवता भवामि । इति हि कुलपुत्र यावद्भिरुपायमुखैश्चरमभविका बोधिसत्त्वा लोक उपपत्तिं संदर्शयन्ति, तावद्भिपायमुखैरहं बोधिसत्त्वजननी भवामि ॥ 30 यथा अहं कुलपुत्र इह लोकधातौ अस्य भगवतः सर्वबोधिसत्त्वजन्मविकुर्वितसंदर्शनेषु .. जनेत्र्यभूवम् , तथा भगवतः क्रकुच्छन्दस्यापि तथागतस्य, कनकमुनेः, काश्यपस्य तथागतस्य १B reads लुम्बिनीति संजानाति for नलिनी...जननीति. S441 B 176

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491