________________
गण्डव्यूहसूत्रम् ।
[४४.०कुशलमूलैरेकव्यूहैरेकविमोक्षविहारिभिरेकज्ञानभूमिसंवासिभिरेकविकुर्वितनिर्यातैरेकप्रणिधानसमुदागतैरेकचर्यानिर्यातैर्धर्मकायपरिशुद्धैरनन्तमध्यरूपकायाधिष्ठानैःसमन्तभद्रबोधिसत्त्वचर्याप्रणिधिविकुर्वितनिर्यातैनागेन्द्रगर्भमणिकूटागारगतैः सागरनागराजपूर्वंगमैरशीत्या नागेन्द्रसहस्रैः सर्वलोकेन्द्रसहस्त्रैश्चाभिपूज्यमानो महता बोधिसत्त्वविकुर्वितेन सर्वतुपितभवनच्युतिसंदर्शनेन 5 एकैकस्मात्तुषितभवनात् सर्वलोकधातुप्रसृतचातुर्तीपोपपत्तिप्रतिलाभसंदर्शनेन अचिन्त्यसत्त्वपरिपाकोपायकौशल्यानुगतेन प्रमत्तसर्वसत्त्वसंचोदनेन सर्वाभिनिवेशोचालनेन महारश्मिजालप्रमुश्चनेन सर्वलोकान्धकारविधमनेन सर्वापायदुःखव्युपशमनेन सर्वनिरयगतिनिवर्तनेन सर्वसत्त्वपूर्वकर्मसंचोदनेन सर्वसत्त्वधातुपरित्रायणेन सर्वसत्त्वाभिमुखकायसंदर्शनेन तुषित
भवनाच्छ्युत्वा सार्धं सपरिवारेण मम कुक्षौ प्राविशत् ॥ 10 ते सर्वे मम कुक्षौ त्रिसाहस्रलोकधातुविपुलेन यावदनभिलाप्यबुद्धक्षेत्रपरमाणुरजः
समलोकधातुविपुलेन आक्रमविक्रमेण अनुविचरन्ति स्म । सर्वाणि च दशसु दिक्षु सर्वलोकधातुप्रसरेषु सर्वतथागतपादमूलेषु सर्वबोधिसत्त्वपर्षन्मण्डलानि प्रतिचित्तक्षणमनभिलाप्यानि मम कुक्षौ समवसरन्ति स्म बोधिसत्त्वगर्भावासविकुर्वितं द्रष्टुम् । चत्वारश्च महाराजाः शक्रयामसंतुषितसुनिर्मितवशवर्तिनश्च देवेन्द्राः ब्रह्मेन्द्राश्च गर्भावासोपगतबोधिसत्त्वमुप15 संक्रामन्ति स्म दर्शनाय बन्दनाय पर्युपासनाय धर्मश्रवणाय सांकय्यानुभावनाय । न चायं
मम कुक्षिस्तावन्ति पर्षन्मण्डलानि प्रतीच्छन् विपुलीभवति । न चास्मान्मनुष्याश्रयादयं मम कायो विशिष्टतरः संतिष्ठते । तानि च तावन्ति पर्षन्मण्डलानि संप्रतीच्छति । सर्वे च ते देवमनुष्या नानाबोधिसत्त्वपरिभोगपरिशुद्धिव्यूहानपश्यन्।तत्कस्य हेतोः? यथापि तदस्यैव महाप्रणिधानमायागतस्य बोधिसत्त्वविमोक्षस्य सुभाषितत्वात् ॥ 20 यथा चाहं कुलपुत्र अस्यां भागवत्यां चातुर्कीपिकायां जम्बुद्वीपे बोधिसत्त्वं कुक्षिणा संप्रतीच्छामि, एवं त्रिसाहस्रमहासाहस्र लोकधातौ सर्वचातुर्दीपिकाजम्बुद्वीपेषु संप्रतीच्छामि अनेन च विकुर्वितन्यूहेन । न चायं मम कायो द्वयीभवति नाद्वयीभवति, न चैकत्वे संतिष्टते न बहुत्वे, यथापि नाम तदस्यैव महाप्रणिधानज्ञानमायागतस्य बोधिसत्त्वविमोक्षस्य
सुभाषितत्वात् । यथा चाहं कुलपुत्र अस्य भगवतो वैरोचनस्य माता अभूवम् , तथा पूर्व25 काणामपि तथागतानामनन्तमध्यानां माता अभूवम् । यत्र बोधिसत्त्वो लोक उपपादुक
उपापद्यत पद्मगर्ने, तत्राहं नलिनीदेवता भूत्वा बोधिसत्त्वं संप्रतीच्छामि । लोकश्च मां बोधिसत्त्वजननीति संजानौति । यत्रोत्सङ्गे प्रादुर्बभूव, तत्राहमस्य जनन्यभूवम् । यत्र बुद्धक्षेत्रे प्रादुर्भवति, तत्राहं बोधिमण्डदेवता भवामि । इति हि कुलपुत्र यावद्भिरुपायमुखैश्चरमभविका बोधिसत्त्वा लोक उपपत्तिं संदर्शयन्ति, तावद्भिपायमुखैरहं बोधिसत्त्वजननी भवामि ॥ 30 यथा अहं कुलपुत्र इह लोकधातौ अस्य भगवतः सर्वबोधिसत्त्वजन्मविकुर्वितसंदर्शनेषु .. जनेत्र्यभूवम् , तथा भगवतः क्रकुच्छन्दस्यापि तथागतस्य, कनकमुनेः, काश्यपस्य तथागतस्य
१B reads लुम्बिनीति संजानाति for नलिनी...जननीति.
S441
B 176