________________
-४४.०] ४४ माया।
३४५ मायादेवीं सपरिवारां सभवनासनां प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-अहमार्ये मञ्जुश्रिया कुमारभूतेन अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य कल्याणमित्रपर्युपासनेन समादापितम् । सोऽहं कल्याणमित्रं पर्युपासमानोऽनुपूर्वेण यावत्तव सकाशमुपसंक्रान्तः । तद्वदतु मे आर्या-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षमाणः परिनिष्पन्नो भवति सर्वज्ञतायाम् । सा अवोचत्-अहं कुलपुत्र महाप्रणिधानज्ञानमायागतव्यूहस्य बोधिसत्त्व- 5 विमोक्षस्य लामिनी । साहं कुलपुत्र अनेन विमोक्षेण समन्वागता यावन्ति इह लोकधातुसमुद्रे भगवतो वैरोचनस्य सर्वलोकधातुषु सर्वजम्बुद्वीपेषु चरमभविकबोधिसत्त्वजन्मविकुर्वितानि प्रवर्तन्ते, सर्वेषां च तेषां चरमभविकानां बोधिसत्त्वानामहं जननी । सर्वे ते बोधिसत्त्वा मम कुक्षौ संभवन्ति । मम दक्षिणात्पार्थानिष्क्रमन्ति । इहैव तावदहं कुलपुत्र 5 439 भागवत्यां चातुर्दीपिकायां कपिलवस्तुनि महानगरे राज्ञः शुद्धोदनस्य कुलबद्धकल्पेन सिद्धार्थ 10 B 175 बोधिसत्त्वं जनित्रवती महताचिन्त्येन बोधिसत्त्वजन्मविकुर्वितेन ।।
सा खल्वहं कुलपुत्र तदा राज्ञः शुद्धोदनस्य गृहगता भवामि । अथ बोधिसत्त्वस्य तुषितभवनाच्चयवनकालसमये प्रत्युपस्थिते सर्वरोममुखेभ्य एकैकस्माद्रोममुखादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमाः सर्वबोधिसत्त्वजननीगुणनयव्यूहाः सर्वतथागतजननीगुणमण्डलप्रभवप्रभासा नाम रश्मयो निश्चरित्वा सर्वावन्तं लोकधातुमवभास्य मम शरीरे निपत्य 15 मूर्धानमुपादाय सर्वरोमकूपेष्वनुप्राविशन् । समनन्तरप्रविष्टाभिश्च कुलपुत्र ताभिर्बोधिसत्त्वरश्मिभिरनेकनामधेयाभिर्नानाबोधिसत्त्वजननीविकुर्वितव्यूहप्रमुञ्चनीमिः, अथ तावदेव मम काये बोधिसत्त्वरश्मिमुखमण्डलाभिविज्ञप्ताः सर्वबोधिसत्त्वजन्मविकुर्वितनयव्यूहाः संदृश्यन्ते स्म अन्तर्गतेन परिवारेण । समनन्तरप्रविष्टाभिश्च कुलपुत्र मम काये ताभिर्बोधिसत्त्वरश्मिभिः, अथ तावदेव येषां बोधिसत्त्वानां तानि बोधिसत्त्वरश्मिमुखमण्डलानि विज्ञप्तानि जन्मनय- 20 विकुर्वितानि प्रवर्तन्ते, सर्वे ते मम चक्षुष आभासमगमन् , यदुत बोधिमण्डवराग्रगता बुद्धसिंहासननिषण्णा बोधिसत्त्वपर्षन्मण्डलपरिवृता लोकेन्द्राभिपूजिता धर्मचक्र प्रवर्तयमानाः । ये च तैस्तथागतैः पूर्वबोधिसत्त्वचर्या चरद्भिस्तथागता आरागिताः, तेऽपि सर्वे मम चक्षुष आभासमगमन् । प्रथमचित्तोत्पादजन्मविकुर्विताः साभिसंबोधिधर्मचक्रप्रवर्तनपरिनिर्वाणविकुर्विताः सर्वबुद्धक्षेत्रविशुद्धब्यूहाः, यानि च तेषां तथागतानां निर्माणमण्डलानि 25 प्रतिचित्तक्षणं सर्वधर्मधातुं स्फरन्ति, तान्यपि सर्वाणि मम चक्षुष आभासमगमन् । तस्या मम कुलपुत्र काये ताभिर्बोधिसत्त्वरश्मिभिरनुप्रविष्टाभिः सर्वजगदभ्युद्गतः कायः संस्थितोऽभूत्, आकाशधातुविपुलश्च कुक्षिः, न च मनुष्याश्रयप्रमाणादतिक्रान्तः। यावन्तश्च दशसु दिक्षु बोधिसत्त्वगर्भावासभवनव्यूहाः, ते सर्वे मम कायेऽन्तर्गता अनुप्रविष्टाः सर्वे संदृश्यन्ते ।।
समनन्तरप्रादुर्भूतस्य च मम कुलपुत्र काये बोधिसत्त्वगर्भावासभवनव्यूहपरिभोगस्य,अथ 30 sh तावदेव बोधिसत्त्वः साध दशबुद्धक्षेत्रपरमाणुरजःसमैर्बोधिसत्त्वैरेकप्रणिधानैः सभागचरितैरेक
१% बोधिसत्त्वानां प्रत्येकमहं जननी. २B जननी भवति.
गण्ड.४४