________________
8437
३४४ गण्डव्यूहसूत्रम्।
[४४.०तत्र केचित्सत्त्वा मारकन्यारूपेण मारकन्यातिरेकरूपां मायादेवीमद्राक्षुः । केचित्सत्त्वा वशवबंप्सरोतिरेकरूपां केचित्सुनिर्मिताप्सरोतिरेकरूपां केचित्संतुषिताप्सरोतिरेकरूपां केचित्सुयामाप्सरोतिरेकरूपां केचित्रायस्त्रिंशाप्सरोतिरेकरूपां केचिच्चातुर्महाराजिकाप्सरोतिरेकरूपां केचित्कुम्भाण्डेन्द्रकन्यातिरेकरूपां केचिन्महोरगेन्द्रकन्यातिरेकरूपाम् । केचित्सत्त्वा 5 मनुष्येन्द्रकन्यातिरेकरूपां मायादेवीमपश्यन् ॥
अथ खलु सुधनः श्रेष्ठिदारझः सर्वजगद्रूपसंज्ञापगतः परसत्त्वाशयानवतरन् सर्वसत्त्वचित्ताशयगतेषु मायादेवीमपश्यत् सर्वजगदुपजीव्यपुण्यां सर्वज्ञतापुण्योपचितशरीरामसंभिन्नदानपारमिताप्रयोगां सर्वजगत्समताप्रतिपन्नां महाकरुणागोष्ठसर्वसत्त्वसमवसरणां सर्वतथागतगुणप्रतिपत्तिनिर्यातां सर्वक्षान्तिनयसागरावतीर्णा सर्वज्ञतावीर्यवेगविवर्धितचेतनां सर्वधर्म10 मण्डलपरिशुद्ध्यविवर्त्यवीयर्यां सर्वधर्मस्वभावनिध्यप्तिनिर्यातां सर्वध्यानाङ्गनयनिष्पत्तिचित्तामसंभिन्नध्यानाङ्गविषयासाधारणतथागतध्यानमण्डलावभासप्रतिलब्धां सर्वसत्त्वक्लेशसागरोच्छोषणनिश्चयनानानिध्यप्तिपरमां सर्वतथागतधर्मचक्रप्रविचयविधिज्ञां सर्वधर्मनयसमुद्रव्यवचारणप्रज्ञां सर्वतथागतदर्शनावितृप्तां त्र्यध्वतथागतपरंपराव्यवलोकनाप्रतिप्रस्रब्धां सर्वबुद्धदर्शनद्वाराभिमुखां सर्वतथागतसमुदागममार्गपरिशुद्धिविमात्रताविधिज्ञां सर्वतथागतगगनगोचरां सर्वसत्त्व15 संग्रहोपायविधिज्ञामनन्तमध्ययथाशयजगत्परिपाकविनयप्रतिभासप्राप्तां सर्वबुद्धकायविशुद्धिविमात्रतावतीणां सर्वक्षेत्रसागरपरिशुद्धिप्रणिधानसमन्वागतां सर्वसत्त्वधातुविनयाधिष्ठानपर्यवसानप्रणिधानपरिशुद्धां सर्वतथागतविपयपूजास्फरणचित्तां सर्वबोधिसत्त्वविकुर्वितवीर्यनिर्यातामनुत्तरधर्मकायपरिशुद्धामनन्तरूपकायसंदर्शनी सर्वमारबलप्रमर्दनीं विपुलकुशलमूलबलोपपन्नां धर्मबलसंजातबुद्धिबुद्धवलावभासप्रतिलब्धां सर्वबोधिसत्त्ववशितावलपरिनिष्पन्नां सर्वज्ञता20 वेगबलसंजातां सर्वतथागतज्ञानविद्युदवभासितप्रज्ञामनन्तमध्यसत्त्वचित्तसमुद्रविचरणज्ञानां विपुलजगदाशयावती) परसत्त्वेन्द्रियविमात्रताज्ञाननयविधिज्ञामनन्तसत्त्वाधिमुक्तिविमात्रताज्ञानकौशल्यानुगतां दशदिगप्रमाणक्षेत्रसमुद्रकायस्फरणांसर्वलोकधातुविमानताज्ञाननयविधिज्ञां सर्वक्षेत्रसभेदविधिज्ञाननयकौशल्यानुगतां सर्वदिक्सागरप्रसृतज्ञानदर्शनां सर्वाध्वसागरानुप्रसृतबुद्धिं सर्वबुद्धसागराभिमुखप्रणिपतितकायां सर्वबुद्धधर्ममेघसमुद्रसंप्रतीन्छनाभिमुखचित्तां 25 सर्वतथागतगुणप्रतिपूरणप्रतिपत्तिनिर्याणप्रयुक्तां सर्वबोधिसंभारसंभवानुप्रसृतबुद्धिं सर्वबोधिसत्त्वप्रस्थानविचारविक्रान्तां सर्वबोधिचित्तोत्पादाङ्गपरिनिष्पन्नां सर्वसत्त्वपरिपालनप्रयुक्तां सर्वबुद्धवर्णमेघालोकप्रभावनां सर्वबोधिसत्त्वजिनजनेत्रीप्रणिधाननिर्याताम् । एतत्प्रमुखैर्जम्बुद्वीपपरमाणुरजःसमैदर्शननयैः सुधनः श्रेष्ठिदारको मायादेवीमपश्यत् । स तां दृष्ट्वा यत्प्रमाणा मायादेवी तत्प्रमाणं खकायमधिष्ठाय समन्तदिगभिमुखां मायादेवीं सर्वत्रानुगतेन कायेन 30 प्रणिपतितः । तस्य प्रणिपतमानस्य अनन्तमध्यानि समाधिमुखानि अवक्रान्तानि । स तानि समाधिमुखानि व्यवलोक्य अनिमित्तीकृत्वा प्रभावयित्वा सारीकृत्वा अनुस्मृत्य स्फरित्वा प्रसरित्वा अवलोकयित्वा विपुलीकृत्वा अभिनित्य मुद्रयित्वा तेभ्यः समाधिमुखेभ्यो व्युत्थाय
8438