SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ 5 438 -४४.०] ४४ माया। ३४३ सर्वतथागतप्रभामण्डलावभासप्रमुञ्चनवैरोचनमणिराजपति सर्वजगदिन्द्रसदृशनिर्माणमेघतथागतपूजोपस्थानप्रमुञ्चनं चिन्तामणिराजपङ्क्ति समन्तभद्रबोधिसत्त्वविकुर्वितप्रतिक्षणसर्वधर्मधातुस्फरणं मेरुध्वजमणिराजपति सर्वदेवेन्द्रभवनमेघाप्सरोरुतनिगर्जितनिर्घोपं सर्वारम्वणतथागतस्तुतिमेघप्रमुञ्चनाचिन्त्यगुणवर्णनिर्देशं च तदासनमद्राक्षीत् अचिन्त्यरत्नव्यूहासनपरिवारम् ।। तस्मिंश्वासने मायादेवी निषण्णामद्राक्षीत् त्रैलोक्यसमतिक्रान्तेन रूपेण, सर्वलोका- 5 भिमुखेन सर्वभवगत्युद्गतेन रूपेण, यथाशयजगद्विज्ञप्तेन सर्वलोकानुपलिप्तेन रूपेण, विपुलपुण्यसंभूतेन सर्वजगत्सदृशेन रूपेण, सर्वसत्त्वसुखोपदर्शनेन सर्वजगत्परिपाकविनयानुकूलेन रूपेण, सर्वसत्त्वाभिमुखप्रलम्वितेन सर्वकालगगनजगद्विज्ञप्त्यसंभिन्नेन रूपेण, सर्वजगन्निष्ठाविज्ञप्त्याधिष्ठानेन अगतिकेन रूपेण, सर्वलोकगतिकेन रूपेण, सर्वलोकगतिनिरुद्धन अनागतिकेन रूपेण, सर्वजगदसंभूतेन अनुत्पन्नेन रूपेण, अनुत्पत्तिसमधर्मनिरतेन 10 अनिरुद्धेन रूपेण, सर्वलोकव्यवहारपरमेण असत्येन रूपेण, यथावत्प्रतिलब्धेन अमृषेण रूपेण, यथालोकविज्ञप्तेन अक्रान्तेन रूपेण, च्युत्युपपत्तिविनिवृत्तेन अविनष्टेन रूपेण, धर्मधातुप्रकृत्यविनाशेन अलक्षणेन रूपेण, त्र्यध्ववाक्पथपरमेण एकलक्षणेन रूपेण, अलक्षणसुलक्षणनिर्यातेन प्रतिभासकल्पेन रूपेण, सर्वजगच्चित्तयथाशयविज्ञप्तेन मायाकल्पेन रूपेण, ज्ञानमायापरिनिष्पन्नेन मरीचिकल्पेन रूपेण, प्रतिक्षणजगत्संज्ञाधिष्ठानपरमेण 15 च्छायोपमेन रूपेण, प्रणिधानसर्वजगदनुवद्धन खप्नोपमेन रूपेण, यथाशयजगद्विज्ञप्त्यसंभिन्नेन सर्वधर्मधातुपरमेण रूपेण, आकाशधातुप्रकृतिपरिशुद्धेन महाकरुणानिर्यातेन रूपेण, सत्त्ववंशपरिपालनप्रयुक्तेन असङ्गमुखनिर्यातेन रूपेण, प्रतिक्षणधर्मधातुस्फरणेन अनन्तमध्येन रूपेण, अनाविलसर्वजगन्निश्रितेन अप्रमाणेन रूपेण, सर्ववाक्पथसमतिक्रान्तेन सुप्रतिष्ठितेन रूपेण, सर्वजगद्विनयाधिष्ठाननिवृत्तेन अनधिष्ठितेन रूपेण, अधिष्ठान- 20 जगत्कायप्रयुक्तेन असंवृतेन रूपेण, प्रणिधानमायापरिनिष्पन्नेन अनभिभूतेन रूपेण, सर्वलोकाभ्युद्गतेन अयथावतेन रूपेण, शमथालोकविज्ञप्तेन असंभवेन रूपेण, यथाकर्मजगदनुबद्धेन चिन्तामणिराजकल्पेन रूपेण, यथाशयसर्वसत्त्वाभिप्रायपरिपूर्णप्रणिधिपरिपूर्णेन अविकल्पेन रूपेण, सर्वजगत्परिकल्पोपस्थितेन अधिकल्पेन रूपेण, सर्वजगद्विज्ञप्त्यकल्पेन अधिष्ठानेन रूपेण, संसाराविनिवृत्तिपरमेण विशुद्धेन रूपेण तथतासमनिर्विकल्पेन । 25 इत्येवंप्रकारेण रूपेण सुधनः श्रेष्ठिदारको मायादेवीमद्राक्षीदरूपेण रूपप्रतिभासेन अवेदनेन रूपेण लोकदुःखवेदनाप्रशान्तिपरमेण, सर्वसत्त्वसंज्ञागतोच्चालितेन रूपेण परसत्त्वसंज्ञागतविज्ञप्तेन, अनभिसंस्कारधर्मतानिर्यातेन रूपेण मायागतकर्मविनिवृत्तेन, विज्ञानविषयसमतिक्रान्तेन रूपेण बोधिसत्त्वप्रणिधिज्ञानसंभवेन, अखभावेन रूपेण सर्वजगद्वाक्पथपरमेण शरीरेण, संसारे संतापनिरुद्धेन रूपेण धर्मकायपरमशीतीभावोपगतेन यथाशयजगद्रूपकाय- 30 संदर्शनी सत्त्वाशयवशेन सर्वजगत्सदृशं सर्वजगदूपकायातिरेकं रूपकायं संदर्शयमानाम् । १ B अप्रतिष्ठितेन. २ S असंभूतेन. B174
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy