________________
8434
३४२ गण्डव्यूहसूत्रम् ।
[४४.०प्रतिलभते, यत्र प्रतिपद्यमानो बोधिसत्त्वोऽसंभिन्नां सर्वबुद्धसमतामवतरति, असंभिन्नानि च सर्वत्रानुगतानि कल्याणमित्राणि प्रतिलभते ॥
___ एवमुक्ते सुनेत्रेण राक्षसेन्द्रेण सुधनः श्रेष्ठिदारको गगनतलमवलोक्य एवमाह-साध साधु आर्य, अनुकम्पकोऽस्माकमनुग्रहप्रवृत्तः कल्याणमित्राणां दर्शयिता। तत्साध्वमस्माकं । सम्यगुपायमुखमुपदिशन् कथं परिक्रमामि ? कतमां दिशमभिमुखं निर्जवामि ? कस्मिन्नधिष्ठाने परिमार्गयामि ? कतमदारम्बणमुपनिध्यायामि कल्याणमित्रदर्शनाय ? आह-तेन हि कुलपुत्र समन्तदिक्प्रणिपतितेन शरीरेण सर्वारम्बणेन कल्याणमित्रस्मृत्युपनिबद्धनाशयेन समन्तनिर्जवेन समाध्यनुगमेन खप्नोपमेन चित्तजवेन प्रतिभासोपमेन मनःशरीरविचारगमनेन कल्याणमित्रसकाशमुपसंक्रमितव्यम् ॥ 10 अथ खलु सुधनः श्रेष्ठिदारको यथानुशिष्टः सुनेत्रेण राक्षसेन्द्रेण प्रतिपद्यमानोऽद्राक्षीत्पुरतो धरणितलान्महारत्नपद्मसमुद्गतं सर्ववज्रशरीरदण्डं सर्वजगत्सागरमणिराजगभं सर्वमणिराजपत्रपतिवैरोचनमणिराजकर्कटिकां सर्वरत्नवर्णगन्धमणिराजकेसरमसंख्येयरत्नजालसंछादितम् । तस्यां च महारत्नराजपद्मकर्कटिकायां धर्मधातुदिक्समवसरणगर्भ नाम कूटागारमपश्य
चित्रं दर्शनीयं वज्रवैरोचनधरणितलसंस्थानं सर्वमणिराजमयपरिपूर्णस्तम्भसहस्रोपशोभितं सर्वB 173_15 रत्नसंघट्टितायाम जाम्बूनदविमलकनकदिव्यविन्यस्तपट्टमसंख्येयनानामुक्ताहारजालोपनिबद्धं
मणिरत्नराजविचित्रभक्तिविन्यासं जम्बूध्वजमणिरत्नसमन्तव्यूहमसंख्येयरत्नवेदिकापरिवृतं समन्तदिग्मणिराजसोपानसुविभक्तम् । तस्य कूटागारस्य मध्ये चिन्ताराजमणिरत्नपद्मगर्भमासनमद्राक्षीत् सर्वलोकेन्द्रसंस्थानमणिविग्रहबिम्बप्रतिष्ठितं सर्वमणिरत्नविग्रहवर्णमिन्द्रध्वजप्रद्योतसंस्थानं वज्रमणिचक्रभूमितलप्रतिष्ठितं नानामणिराजपतिव्यूहमनेकरत्नवेदिकापरिवृतं 20 ज्योतिर्ध्वजमणिराजसुप्रत्यर्पितं नानारत्नव्यूहोपशोभितं दिव्यातिक्रान्तमणिराजवस्त्रसुप्रज्ञप्त__ मनेकवर्णविचित्रवस्त्ररत्नसुसंस्कृतं सर्वरत्नवस्त्रवितानविततगगनालकारं सर्वरत्नजालसंछादितं समन्तदिक्सुविभक्तवज्रध्वजनिर्घोषं सर्वरत्नपट्टध्वजसुसमीरितविद्योतितं सर्वगन्धमणिराजध्वजविन्यस्तसमतालंकारं सर्वपुष्पधूप विचित्रकुसुमौघसंप्रवर्षणं सर्वरत्नकिङ्किणीध्वजसुसमीरितश्रवणमनःसुखमधुरनिर्घोषं नानारत्नभवनमुखद्वारप्रयुक्तं नानारत्नमणिविग्रहमुखानेक28 वर्णगन्धोदकप्रवृद्धवैरोचनमणिराजविग्रहगजेन्द्रमुखपद्मजालप्रयुक्तं नानावज्रसिंहमुखानन्तवर्ण
धूपमेघप्रयुक्तं ब्रह्मसंस्थानवैरोचनमणिराजमुखमहामैत्रीनयब्रह्मघोषनिर्नादप्रमुक्तं नानारलरजतमुखशुक्लपक्षोहयोतनमधुरनिर्नादरुतवणं त्र्यध्वबुद्धनामकनकघण्टामालामधुररुतामुक्तनिर्घोष सर्वबुद्धधर्मचक्रमहामणिराजघण्टामालामनोज्ञरुतरवणं सर्वबोधिसत्त्वप्रणिधिनानावज्रघण्टानिश्वरितनिर्घोषं चन्द्रध्वजमणिराजपतिसर्वबुद्धप्रतिभासनिचितनामनिर्नादविज्ञपनं शुद्धगर्भमणि30 राजपङ्क्ति सर्वत्र्यध्वतथागतजन्मपरंपराप्रतिभासविज्ञपनमादित्यगर्भमणिराजपति सर्वविकुर्वित'प्रतिपत्त्याकाशधातुपरमदशदिक्सर्वबुद्धक्षेत्रविधिपथरश्मिसंदर्शनम् अवभासध्वजमणिराजपति
8435
18 ध्वज° for "धूप,