________________
10
5433
-४४.०]
४४ माया। मवतरति । विरजापतिं च नाम चक्षुः प्रतिलेभे, येन च सर्वधर्मस्वभावमण्डलं व्यवलोकयति । विशुद्धगतिं च नाम चक्षुः प्रतिलेभे, येन सर्वक्षेत्रप्रकृतिं व्यवलोकयति । वैरोचनप्रभं च नाम चक्षुः प्रतिलेभे, येन तथागतधर्मशरीरं व्यवलोकयति । विशुद्धगतिं च नाम चक्षुः प्रतिलेभे, येनाचिन्त्यां तथागतरूपकायपरिनिष्पत्ति व्यवलोकयति । समन्तप्रभं च नाम चक्षुः प्रतिलेभे, येनाचिन्त्यां तथागतरूपकायपरिनिष्पत्तिभक्तिं व्यवलोकयति । । असङ्गप्रभं च नाम चक्षुः प्रतिलेभे, येन सर्वक्षेत्रसागरप्रसरलोकधातुसंभवविभक्तिं व्यवलोकयति । समन्तावभासं च नाम चक्षुः प्रतिलेभे, येन सर्वतथागतधर्मेषु सूत्रान्तनयनिहर्हारदिशं व्यवलोकयति । समन्तविषयं च नाम चक्षुः प्रतिलेभे, येनानन्तमध्यवुद्धविकुर्वितसत्त्वविनयाधिष्ठानं व्यवलोकयति । समन्तदर्श च नाम चक्षुः प्रतिलेभे, येन सर्वक्षेत्रसमुत्पत्तिप्रसृतं बुद्धोत्पादं व्यवलोकयति ॥
___ अथ खलु सुनेत्रो नाम राक्षसेन्द्रो बोधिसत्त्वसंगीतिप्रासादद्वारपालो दशानां राक्षससहस्राणां प्रमुखः सभार्यः सपुत्रः सखजनपरिवारः सुधनं श्रेष्ठिदारकं नानावर्णमनोज्ञगन्धैः कुसुमैरभ्यवकीर्य एवमाह-दशभिः कुलपुत्र धर्मः समन्वागतो बोधिसत्त्व आसन्नो भवति सर्वकल्याणमित्राणाम् । कतमैर्दशभिः ? यदुत मायाशाठ्यापगतेन सुपरिशुद्धेनाशयेन, सर्वजगत्परिग्रहासंभिन्नया महाकरुणया, सर्वसत्त्वनिःसत्त्वस्वभावनिध्यप्त्या प्रत्यवेक्षया, 15 सर्वज्ञतागमनावैवर्येनाध्याशयबलेन, तथागतमण्डलाभिमुखेनाधिमुक्तिवलेन, सर्वधर्मस्वभावविमलविशुद्धेन चक्षुषा, सर्वसत्त्वमण्डलासंभिन्नया महामैत्र्या, सर्वावरणविकिरणेन ज्ञानालोकेन, सर्वसंसारदुःखप्रतिपक्षच्छत्रभूतेन महाधर्ममेघेन, सर्वधर्मधातुश्रोत्रसमन्तप्रसृतेन कल्याणमित्रगमनाभिमुखेन ज्ञानचक्षुषा । एभिः कुलपुत्र दशभिर्धः समन्वागतो वोधिसत्त्व आसन्नो भवति सर्वकल्याणमित्राणाम् । दशभिश्च समाधिनिध्यप्तिमुखैर्व्यवलोकयन् वोधि- 20 सत्त्वः संमुखीभावं प्रतिलभते सर्वकल्याणमित्राणाम् । कतमैदशभिः? यदुत धर्मगगनविरजोविचारमण्डलेन च समाधिनिध्यप्तिमुखेन, सर्वदिक्समुद्राभिमुखचक्षुषा च समाधिनिध्यप्तिमुखेन, सर्वारम्बणाविकल्पाविचारेण च समाधिनिध्यप्तिमुखेन, सर्वदिक्तथागतमेघसंभवेन च समाधिनिध्यप्तिमुखेन, सर्वज्ञज्ञानपुण्यसमुद्रोपचयगर्भेण च समाधिनिध्यप्तिमुखेन, सर्वचित्तोत्पादाविरहितकल्याणमित्रसंभवासनेन च समाधिनिध्यप्तिमुखेन, सर्वतथा- 25 गतगुणकल्याणमित्रसुखसंभवेन च समाधिनिध्यप्तिमुखेन, सर्वकल्याणमित्रात्यन्ताविप्रवासेन च समाधिनिध्यप्तिमुखेन, सर्वकल्याणमित्रसमतासदासमन्तोपसंक्रमणप्रयोगेन च समाधिनिध्यप्तिमुखेन, सर्वकल्याणमित्रोपायचरितेष्वक्लान्तप्रयोगेन च समाधिनिध्यप्तिमुखेन । एभिः कुलपुत्र दशभिः समाधिनिध्यप्तिमुखैः समन्वागतो बोधिसत्त्वः संमुखीभावं प्रतिलभते सर्वकल्याणमित्राणाम् । सर्वतथागतधर्मचक्रकल्याणमित्रमुखनिर्घोषं च नाम समाधिविमोक्षं 30
१ S om. विशुद्ध...व्यवलोकयति. २ B °निष्पत्ति for निध्यप्ति throughout.