________________
S 431
S 432
B 172
गण्डव्यूहसूत्रम् ।
[ ४४.०चित्तनगरप्रतिस्यन्दनप्रयुक्तेन ते कुलपुत्र भवितव्यं विपुलमहाकरुणासर्वजगदनुकम्पनतया । चित्तनगरद्वारविवर णप्रयुक्तेन ते कुलपुत्र भवितव्यमाध्यात्मिकबाह्यवस्तुसर्वजगत्संप्रापणतया । चित्तनगरविशोधनप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वसंसारविषयरतिपराङ्मुखतया । चित्तनगरदृढस्थामाभिनिर्हारप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वाकुशलधर्मस्वसंतत्यसंभवन तया । 5 चित्तनगरवीर्यप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वज्ञतासंभारसमार्जनवीर्याभिनिर्वर्तनतया । चित्तनगरप्रभासनप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वत्र्यध्वतथागतमण्डलस्मृत्यवभासनतया । चित्तनगरविचयविधिज्ञेन ते कुलपुत्र भवितव्यं सर्वतथागतधर्मचक्रसूत्रान्तविविधधर्मद्वारप्रविचयश्रुताभिज्ञतया । चित्तनगरनियामविधिज्ञेन ते कुलपुत्र भवितव्यं सर्वजगदभिमुखसर्वज्ञताद्वारमार्गविविधसंदर्शनतया । चित्तनगराधिष्ठानविधिज्ञेन ते कुलपुत्र भवितव्यं सर्वत्र्यध्व10 तथागतप्रणिधान निर्धारविशुद्धये । चित्तनगरसंभारबलविवर्धनविधिज्ञेन ते कुलपुत्र भवितव्यं सर्वधर्मधातुविपुलपुण्यज्ञानसंभारविवर्धनतया । चित्तनगरसमन्तप्रभासप्रमुञ्चनविधिज्ञेन ते कुलपुत्र भवितव्यं सर्वसत्त्वचित्ताशयेन्द्रियाविमुक्तिसंक्लेशव्यवदानज्ञानाभिज्ञतया । चित्तनगरवशवर्तनविधिज्ञेन ते कुलपुत्र भवितव्यं सर्वधर्मधातुनयसमवसरणतया । चित्तनगरप्रभा - स्वराभियुक्तेन ते कुलपुत्र भवितव्यं सर्वतथागतस्मृत्यवभासनतया । चित्तनगरखभावपरिज्ञाभि15 युक्तेन ते कुलपुत्र भवितव्यमशरीर सर्वधर्मनयप्रतिविध्यनतया । चित्तनगरमा योपमप्रत्यवेक्षणाभियुक्तेन ते कुलपुत्र भवितव्यं सर्वज्ञताधर्मनगरगमनतया । एवं चित्तनगरपरिशुद्ध्यभियुक्तेन ते कुलपुत्र बोधिसत्त्वेन शक्यं सर्वकुशलसमार्जनमनुप्राप्तुम् । तत्कस्य हेतोः ? तथा हि बोधिसत्त्वस्य एवं चित्तनगरपरिशुद्धस्य सर्वावरणानि पुरतो न संतिष्ठन्ते बुद्धदर्शनावरणं वा धर्मश्रवणावरणं वा तथागतपूजोपस्थानावरणं वा सत्त्वसंग्रहप्रयोगावरणं वा बुद्धक्षेत्रपरि 20 शुद्ध्यावरणं वा । सर्वावरणविगतेन हि कुलपुत्र चित्ताध्याशयेन कल्याणमित्रपर्येष्ट्यभियुक्तस्य बोधिसत्त्वस्य अल्पकृच्छ्रेण कल्याणमित्राण्याभासमागच्छन्ति । कल्याणमित्राधीना च कुलपुत्र बोधिसत्त्वानां सर्वज्ञता ॥
३४०
तत्र धर्मपद्मश्रीकुशला शरीरकायिकदेवता ही श्रीमञ्जरिप्रभावा अपरिमाणदेवतागण - परिवृता मायाया देव्या वर्णमुदीरयमाणा बोधिमण्डान्निष्क्रम्य सुधनस्य श्रेष्ठदारकस्याभिमुखं 25 गगनतले स्थित्वा खकस्वकेभ्योऽनेकरत्नवर्णानि रश्मिजालानि अनेकगन्धधूपविमलार्चिर्वर्णानि चित्ताशयप्रसादनवर्णानि चित्तप्रीतिवेगविवर्धनवर्णानि कायपरिदाह प्रह्लादनवर्णानि काय - परिशुद्धिसंदर्शनवर्णानि असङ्गकायविक्रमसंभवविषयाणि रश्मिजालानि प्रामुश्चत् । तानि विपुलानि क्षेत्राण्यवभास्य सुधनस्य श्रेष्ठदारकस्य सर्वत्रानुगतं समन्ताभिमुखं सर्वतथागतकायं संदर्शयित्वा सर्वावन्तं लोकं प्रदक्षिणीकृत्य सुधनस्य श्रेष्ठदारकस्य मूर्धसंधौ निपतन्ति स्म । 30 तानि मूर्धानमुपादाय सर्वरोमकूपेष्वनुप्रविश्य अनुप्रसरन्ति स्म । समनन्तरस्पृष्टश्च सुधनः श्रेष्ठिदारकस्ताभिर्देवतारश्मिभिः, अथ तावदेव विरजःप्रभासं नाम चक्षुः प्रतिलेभे, यत् सर्वतमोन्धकारेण सार्धं न संवसति । वितिमिरं च नाम चक्षुः प्रतिलेभे, येन सत्त्वस्वभाव -