________________
171
5 430
४४ माया। अथ खल्लु सुधनस्य श्रेष्ठिदारकस्य मायाया देव्याः सकाशं गमनाभिमुखस्य वुद्धगोचरविचारज्ञानप्रतिपन्नस्य एतदभवत्-केनोपायेन मया शक्यं सर्वलोकोच्चलितषडायतनानामप्रतिष्ठितानां कल्याणमित्राणां सर्वसङ्गसमतिक्रान्तकायानामसङ्गगतिगामिनीप्रति. पदाप्रतिपन्नानां धर्मकायसुविशुद्धानां कायकर्ममायासुनिर्मितशरीराणां ज्ञानमायागतलोक- 5 विचाराणां प्रणिधिरूपकायानां बुद्धाधिष्ठानमनोमयशरीराणामनुत्पन्नानिरुद्धकायानामसत्यामृषकायानामसंक्रान्तविनष्टकायानामसंभवाविभवकायानाम् अलक्षणैकलक्षणकायानाम् अद्यसंङ्गविनिर्मुक्तकायानाम् , अनालयनिलयकायानाम् , अनक्षतकायानां प्रतिभाससमनिर्विकल्पकायानां खप्नसमविचारकायानाम् , आदर्शमण्डलसमसदृशाक्रान्तकायानां दिक्समप्रशान्तप्रतिष्ठकायानां सर्वदिक्स्फरणनिर्माणकायानां त्र्यध्वासंमिन्नकायानामशरीरचित्तनिर्विकल्पकायानां 10 सर्वलोकचक्षुष्पथसमतिक्रान्तकायानां समन्तभद्रचक्षुःप्रसरविज्ञेयविनयकायानाम् असङ्गगगनगोचराणां कल्याणमित्राणां दर्शनमारागयितुं संमुखीभावतामनुप्राप्तुं समवधानं चाप्तुं निमित्तं चोद्रहीतुं घोषमण्डलं वा विज्ञातुं मन्त्रव्यवचारान् वा आज्ञातुमनुशासनी चोद्हीतुम् ॥
तमेवं चिन्तामनसिकारप्रयुक्तं रत्ननेत्रा नाम नगरदेवता गगनदेवतागणपरिवृता गगनतलगतमात्मानमुपदर्य नानाविभूषणविभूषितशरीरा अनेकाकारवर्णदिव्यकुसुमपुटपरि-15 गृहीता संमुखमभ्यवकीरमाणा सुधनं श्रेष्ठिदारकमेतदवोचत्-चित्तनगरपरिपालनप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वसंसारविषयरत्यसंवसनतया । चित्तनगरालंकारप्रयुक्तेन ते कुलपुत्र भवितव्यं दशतथागतबलाध्यालम्बनतया । चित्तनगरपरिशोधनप्रयुक्तेन ते कुलपुत्र भवितव्यमामात्सर्यशाठ्यापनयनतया । चित्तनगरसंतापप्रशमाभियुक्तेन ते कुलपुत्र भवितव्यं सर्वधर्मनिध्यप्त्या । चित्तनगरविवर्धनाभियुक्तेन ते कुलपुत्र भवितव्यं सर्वज्ञतासंभारमहावीर्य-20 वेगविवर्धनतया । चित्तनगरभवनकोशव्यूहारक्षाप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वसमाधिसमापत्तिध्यानविमोक्षविपुलधर्मविनयमानविहारवशवर्तितया । चित्तनगरावभासप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वतथागतपर्षन्मण्डलसमुदयसमन्तभूमिप्रज्ञापारमिताप्रतिलम्भप्रतीच्छनतया । चित्तनगरोपस्तम्भप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वतथागतसंभवोपायमार्गखचित्तनगरसमवसरणतया । चित्तनगरदृढप्राकाराभिनिर्हारप्रयुक्तेन ते कुलपुत्र भवितव्यं समन्त- 25 भद्रबोधिसत्त्वचर्याप्रणिधानाभिनिहारचित्तविशुद्धये । चित्तनगरदुर्योधनदुरासदताभिनिर्हार प्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वक्लेशमारकायिकपापमित्रमारचक्रानवमृद्यतया । चित्तनगरावभासनप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वसत्त्वतथागतज्ञानावमासप्रतिपद्यमानतया। चित्तनगराभिनिष्यन्दनप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वतथागतधर्ममेघसंप्रतीच्छनतया । चित्तनगरोपस्तम्भनप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वतथागतपुण्यसमुद्रखचित्ताशयसंप्रतीच्छनतया । 80 चित्तनगरप्रविस्तरणप्रयुक्तेन ते कुलपुत्र भवितव्यं महामैत्रीसर्वजगत्फरणतया। चित्तनगरसंप्रतिच्छादनप्रयुक्तेन ते कुलपुत्र भवितव्यं विपुलधर्मच्छत्रसर्वाकुशलधर्मप्रतिपक्षाभिनिर्हरणतया ।