Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 376
________________ S 431 S 432 B 172 गण्डव्यूहसूत्रम् । [ ४४.०चित्तनगरप्रतिस्यन्दनप्रयुक्तेन ते कुलपुत्र भवितव्यं विपुलमहाकरुणासर्वजगदनुकम्पनतया । चित्तनगरद्वारविवर णप्रयुक्तेन ते कुलपुत्र भवितव्यमाध्यात्मिकबाह्यवस्तुसर्वजगत्संप्रापणतया । चित्तनगरविशोधनप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वसंसारविषयरतिपराङ्मुखतया । चित्तनगरदृढस्थामाभिनिर्हारप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वाकुशलधर्मस्वसंतत्यसंभवन तया । 5 चित्तनगरवीर्यप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वज्ञतासंभारसमार्जनवीर्याभिनिर्वर्तनतया । चित्तनगरप्रभासनप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वत्र्यध्वतथागतमण्डलस्मृत्यवभासनतया । चित्तनगरविचयविधिज्ञेन ते कुलपुत्र भवितव्यं सर्वतथागतधर्मचक्रसूत्रान्तविविधधर्मद्वारप्रविचयश्रुताभिज्ञतया । चित्तनगरनियामविधिज्ञेन ते कुलपुत्र भवितव्यं सर्वजगदभिमुखसर्वज्ञताद्वारमार्गविविधसंदर्शनतया । चित्तनगराधिष्ठानविधिज्ञेन ते कुलपुत्र भवितव्यं सर्वत्र्यध्व10 तथागतप्रणिधान निर्धारविशुद्धये । चित्तनगरसंभारबलविवर्धनविधिज्ञेन ते कुलपुत्र भवितव्यं सर्वधर्मधातुविपुलपुण्यज्ञानसंभारविवर्धनतया । चित्तनगरसमन्तप्रभासप्रमुञ्चनविधिज्ञेन ते कुलपुत्र भवितव्यं सर्वसत्त्वचित्ताशयेन्द्रियाविमुक्तिसंक्लेशव्यवदानज्ञानाभिज्ञतया । चित्तनगरवशवर्तनविधिज्ञेन ते कुलपुत्र भवितव्यं सर्वधर्मधातुनयसमवसरणतया । चित्तनगरप्रभा - स्वराभियुक्तेन ते कुलपुत्र भवितव्यं सर्वतथागतस्मृत्यवभासनतया । चित्तनगरखभावपरिज्ञाभि15 युक्तेन ते कुलपुत्र भवितव्यमशरीर सर्वधर्मनयप्रतिविध्यनतया । चित्तनगरमा योपमप्रत्यवेक्षणाभियुक्तेन ते कुलपुत्र भवितव्यं सर्वज्ञताधर्मनगरगमनतया । एवं चित्तनगरपरिशुद्ध्यभियुक्तेन ते कुलपुत्र बोधिसत्त्वेन शक्यं सर्वकुशलसमार्जनमनुप्राप्तुम् । तत्कस्य हेतोः ? तथा हि बोधिसत्त्वस्य एवं चित्तनगरपरिशुद्धस्य सर्वावरणानि पुरतो न संतिष्ठन्ते बुद्धदर्शनावरणं वा धर्मश्रवणावरणं वा तथागतपूजोपस्थानावरणं वा सत्त्वसंग्रहप्रयोगावरणं वा बुद्धक्षेत्रपरि 20 शुद्ध्यावरणं वा । सर्वावरणविगतेन हि कुलपुत्र चित्ताध्याशयेन कल्याणमित्रपर्येष्ट्यभियुक्तस्य बोधिसत्त्वस्य अल्पकृच्छ्रेण कल्याणमित्राण्याभासमागच्छन्ति । कल्याणमित्राधीना च कुलपुत्र बोधिसत्त्वानां सर्वज्ञता ॥ ३४० तत्र धर्मपद्मश्रीकुशला शरीरकायिकदेवता ही श्रीमञ्जरिप्रभावा अपरिमाणदेवतागण - परिवृता मायाया देव्या वर्णमुदीरयमाणा बोधिमण्डान्निष्क्रम्य सुधनस्य श्रेष्ठदारकस्याभिमुखं 25 गगनतले स्थित्वा खकस्वकेभ्योऽनेकरत्नवर्णानि रश्मिजालानि अनेकगन्धधूपविमलार्चिर्वर्णानि चित्ताशयप्रसादनवर्णानि चित्तप्रीतिवेगविवर्धनवर्णानि कायपरिदाह प्रह्लादनवर्णानि काय - परिशुद्धिसंदर्शनवर्णानि असङ्गकायविक्रमसंभवविषयाणि रश्मिजालानि प्रामुश्चत् । तानि विपुलानि क्षेत्राण्यवभास्य सुधनस्य श्रेष्ठदारकस्य सर्वत्रानुगतं समन्ताभिमुखं सर्वतथागतकायं संदर्शयित्वा सर्वावन्तं लोकं प्रदक्षिणीकृत्य सुधनस्य श्रेष्ठदारकस्य मूर्धसंधौ निपतन्ति स्म । 30 तानि मूर्धानमुपादाय सर्वरोमकूपेष्वनुप्रविश्य अनुप्रसरन्ति स्म । समनन्तरस्पृष्टश्च सुधनः श्रेष्ठिदारकस्ताभिर्देवतारश्मिभिः, अथ तावदेव विरजःप्रभासं नाम चक्षुः प्रतिलेभे, यत् सर्वतमोन्धकारेण सार्धं न संवसति । वितिमिरं च नाम चक्षुः प्रतिलेभे, येन सत्त्वस्वभाव -

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491