Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 365
________________ ३२९ -४३.८९] ४३ गोपा। इमां महापृथिवीं ससागरगिरिपर्यन्तामखिलामकण्टकामनीतिकामनुपद्रवामृद्धां स्फीता क्षेमां सुभिक्षा रमणीयामाकीर्णबहुजनमनुष्यां धर्मेणाभिनिर्जित्य अध्यावसति स्म ॥ स तस्मिन् जम्बुद्वीपे चतुरशीतिराजधानीसहस्रेषु एकैकस्यां राजधान्यां पञ्च विहारशतानि कारयामास सर्वाकारवरोपेतानि सर्वोपभोगपरिभोगोपचारसंपन्नानि सर्वोद्यानप्रासादचंक्रमनिर्याणसुखपरिभोग्यवनराजीविभूषितानि । एकैकस्मिंश्च विहारे तथागतचैत्यं । कारयामास विपुलोद्विद्धमत्यन्तरानेकाकाररत्नव्यूह सर्वमणिरत्नराजविचित्रम् । सर्वासु च तासु राजधानीषु तं भगवन्तं सूर्यगात्रप्रवरं तथागतं सपरिवारमुपनिमन्त्रयामास नगरप्रवेशाय । सर्वासु राजधानीषु तं तथागतं सर्वाकारया अचिन्त्यया तथागतपूजया पूजयन् प्रवेशयामास । स बुद्धनगरप्रवेशप्रातिहार्यविकुर्वितेन अप्रमाणानां सत्त्वानां कुशलमूलानि संजनयामास । 5 419 तत्राप्रसन्नचित्ताः सत्त्वाः प्रसादं प्रत्यलभन्त । प्रसन्नचित्ताः सत्त्वा बुद्धदर्शनप्रीतिवेगान् 10 विवर्धयामासुः । प्रीतिवेगविवर्धिताः सत्त्वा वोध्याशयविशुद्धिं प्रत्यलभन्त । वोध्याशयविशुद्धाः सत्त्वाः महाकरुणाचेतनामुत्पादयामासुः । सत्त्वहितप्रतिपन्नाः सत्त्वाः सर्ववुद्धधर्मपर्येष्टयभियुक्ता अभूवन् । वुद्धधर्मनयविधिज्ञाः सत्त्वाः सर्वधर्मस्वभावनिध्यप्तये चित्तमभिनिर्णामयामासुः । धर्मसमतावतीर्णाः सत्त्वाः त्र्यध्वसमतावताराय चित्तमभिनिर्णामयामासुः । त्र्यध्वज्ञानावभासप्रतिलब्धाः सत्त्वाः सर्ववुद्धपरंपराविज्ञप्तये ज्ञानालोकमवक्रामन्ति स्म । 15 विचित्रतथागतविज्ञत्यवक्रान्ताः सत्त्वाः सर्वजगत्संग्रहाय चित्तमभिनिर्णामयामासुः । सर्वजगसंग्रहप्रयुक्ताः सत्त्वा बोधिसत्त्वमार्गविशुद्धये प्रणिधानमुत्पादयामासुः। मार्गसमतावतीर्णाः सत्त्वाः सर्वतथागतधर्मचक्राभिनिहाराय ज्ञानालोकमुत्पादयामासुः । धर्मसागरविनयाभिमुखाः सत्त्वाः सर्वक्षेत्रजालखकायस्फरणतायै चित्तमभिनिर्णामयामासुः । क्षेत्रसमतावतीर्णाः सत्त्वाः सर्वसत्त्वेन्द्रियसमुद्रपरिज्ञायै प्रणिधानमकार्षः । सर्वजगदिन्द्रिययथाधिमुक्तिविचारप्रयुक्ताः 20 सत्त्वाः सर्वज्ञताधिगमाय अध्याशयं विशोधयामासुः । इत्येवंरूपाणां सत्त्वानामिमामेवंरूपार्थसिद्धिं संप्रवेश्य तेजोधिपती राजा सर्वासु राजधानीषु तं सूर्यगात्रप्रवरं तथागतं प्रवेशयामास अचिन्त्येन बुद्धविकुर्वितप्रातिहार्यसंदर्शनेन तेषां सत्त्वानां परिपाकविनयाय ॥ ___ तत्किं मन्यसे कुलपुत्र-अन्यः स तेन कालेन तेन समयेन तेजोधिपति म राजपुत्रोऽभूत् ? न खलु पुनस्त्वयैवं द्रष्टव्यम् । अयं स भगवान् शाक्यमुनिस्तथागतस्तेन 25_B 187 कालेन तेन समयेन तेजोधिपतिर्नाम राजपुत्रोऽभूत् , येन तच्चक्रवर्तिराज्यं प्रतिलब्धम् , स च सूर्यगात्रप्रवरो नाम तथागत आरागितः । तल्किं मन्यसे कुलपुत्र-अन्यः स तेन कालेन तेन समयेन धनपति म राजा अभूत् तेजोधिपतेः कुमारस्य पिता ? न खल्वेवं द्रष्टव्यम् । रत्नकुसुमप्रभो नाम तथागतस्तेन कालेन तेन समयेन धनपति म राजा अभूत् , य एतर्हि पूर्वस्यां दिशि लोकधातौ सागरपरमाणुरजःसमानां लोकधातुसमुद्राणां 30_8 420 परेण धर्मधातुगगनप्रतिभासमेघनाम्नि लोकधातुसमद्रे त्र्यध्वप्रतिभासमणिराजसंभवकुलमध्यमे लोकधातुवंशे बुद्धप्रभामण्डलश्रीप्रदीपायां लोकधातौ सुचन्द्रकायप्रतिभासध्वजे बोधिमण्डे गण्ड.४२

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491