________________
३२९
-४३.८९]
४३ गोपा। इमां महापृथिवीं ससागरगिरिपर्यन्तामखिलामकण्टकामनीतिकामनुपद्रवामृद्धां स्फीता क्षेमां सुभिक्षा रमणीयामाकीर्णबहुजनमनुष्यां धर्मेणाभिनिर्जित्य अध्यावसति स्म ॥
स तस्मिन् जम्बुद्वीपे चतुरशीतिराजधानीसहस्रेषु एकैकस्यां राजधान्यां पञ्च विहारशतानि कारयामास सर्वाकारवरोपेतानि सर्वोपभोगपरिभोगोपचारसंपन्नानि सर्वोद्यानप्रासादचंक्रमनिर्याणसुखपरिभोग्यवनराजीविभूषितानि । एकैकस्मिंश्च विहारे तथागतचैत्यं । कारयामास विपुलोद्विद्धमत्यन्तरानेकाकाररत्नव्यूह सर्वमणिरत्नराजविचित्रम् । सर्वासु च तासु राजधानीषु तं भगवन्तं सूर्यगात्रप्रवरं तथागतं सपरिवारमुपनिमन्त्रयामास नगरप्रवेशाय । सर्वासु राजधानीषु तं तथागतं सर्वाकारया अचिन्त्यया तथागतपूजया पूजयन् प्रवेशयामास । स बुद्धनगरप्रवेशप्रातिहार्यविकुर्वितेन अप्रमाणानां सत्त्वानां कुशलमूलानि संजनयामास । 5 419 तत्राप्रसन्नचित्ताः सत्त्वाः प्रसादं प्रत्यलभन्त । प्रसन्नचित्ताः सत्त्वा बुद्धदर्शनप्रीतिवेगान् 10 विवर्धयामासुः । प्रीतिवेगविवर्धिताः सत्त्वा वोध्याशयविशुद्धिं प्रत्यलभन्त । वोध्याशयविशुद्धाः सत्त्वाः महाकरुणाचेतनामुत्पादयामासुः । सत्त्वहितप्रतिपन्नाः सत्त्वाः सर्ववुद्धधर्मपर्येष्टयभियुक्ता अभूवन् । वुद्धधर्मनयविधिज्ञाः सत्त्वाः सर्वधर्मस्वभावनिध्यप्तये चित्तमभिनिर्णामयामासुः । धर्मसमतावतीर्णाः सत्त्वाः त्र्यध्वसमतावताराय चित्तमभिनिर्णामयामासुः । त्र्यध्वज्ञानावभासप्रतिलब्धाः सत्त्वाः सर्ववुद्धपरंपराविज्ञप्तये ज्ञानालोकमवक्रामन्ति स्म । 15 विचित्रतथागतविज्ञत्यवक्रान्ताः सत्त्वाः सर्वजगत्संग्रहाय चित्तमभिनिर्णामयामासुः । सर्वजगसंग्रहप्रयुक्ताः सत्त्वा बोधिसत्त्वमार्गविशुद्धये प्रणिधानमुत्पादयामासुः। मार्गसमतावतीर्णाः सत्त्वाः सर्वतथागतधर्मचक्राभिनिहाराय ज्ञानालोकमुत्पादयामासुः । धर्मसागरविनयाभिमुखाः सत्त्वाः सर्वक्षेत्रजालखकायस्फरणतायै चित्तमभिनिर्णामयामासुः । क्षेत्रसमतावतीर्णाः सत्त्वाः सर्वसत्त्वेन्द्रियसमुद्रपरिज्ञायै प्रणिधानमकार्षः । सर्वजगदिन्द्रिययथाधिमुक्तिविचारप्रयुक्ताः 20 सत्त्वाः सर्वज्ञताधिगमाय अध्याशयं विशोधयामासुः । इत्येवंरूपाणां सत्त्वानामिमामेवंरूपार्थसिद्धिं संप्रवेश्य तेजोधिपती राजा सर्वासु राजधानीषु तं सूर्यगात्रप्रवरं तथागतं प्रवेशयामास अचिन्त्येन बुद्धविकुर्वितप्रातिहार्यसंदर्शनेन तेषां सत्त्वानां परिपाकविनयाय ॥
___ तत्किं मन्यसे कुलपुत्र-अन्यः स तेन कालेन तेन समयेन तेजोधिपति म राजपुत्रोऽभूत् ? न खलु पुनस्त्वयैवं द्रष्टव्यम् । अयं स भगवान् शाक्यमुनिस्तथागतस्तेन 25_B 187 कालेन तेन समयेन तेजोधिपतिर्नाम राजपुत्रोऽभूत् , येन तच्चक्रवर्तिराज्यं प्रतिलब्धम् , स च सूर्यगात्रप्रवरो नाम तथागत आरागितः । तल्किं मन्यसे कुलपुत्र-अन्यः स तेन कालेन तेन समयेन धनपति म राजा अभूत् तेजोधिपतेः कुमारस्य पिता ? न खल्वेवं द्रष्टव्यम् । रत्नकुसुमप्रभो नाम तथागतस्तेन कालेन तेन समयेन धनपति म राजा अभूत् , य एतर्हि पूर्वस्यां दिशि लोकधातौ सागरपरमाणुरजःसमानां लोकधातुसमुद्राणां 30_8 420 परेण धर्मधातुगगनप्रतिभासमेघनाम्नि लोकधातुसमद्रे त्र्यध्वप्रतिभासमणिराजसंभवकुलमध्यमे लोकधातुवंशे बुद्धप्रभामण्डलश्रीप्रदीपायां लोकधातौ सुचन्द्रकायप्रतिभासध्वजे बोधिमण्डे
गण्ड.४२