SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३३० गण्डव्यूहसूत्रम्। [४३.८९अनुत्तरां सम्यक्संबोधिमभिसंबुद्धोऽनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमबोधिसत्त्वपरिवृतो धर्म देशयति । तेन च भगवता रत्नकुसुमप्रभेण तथागतेन पूर्व बोधिसत्त्वचर्या चरता सर्वधर्मधातुगगनप्रतिभासमेघो लोकधातुसमुद्रः परिशोधितः । यावन्तश्च तस्मिन् लोकधातुसमुद्रे तथागता उत्पन्नाश्च उत्पद्यन्ते च उत्पत्स्यन्ते च, ते सर्वे च भगवता रत्नकुसुमप्रभेण 5 तथागतेन पूर्वबोधिसत्त्वचर्याश्चरता अनुत्तरायां सम्यक्संबोधौ परिपाचिताः ॥ तल्किं मन्यसे कुलपुत्र-अन्या सा तेन कालेन तेन समयेन पद्मश्रीगर्भसंभवा नाम राजभार्या अभूत् तेजोधिपतेः कुमारस्य माता चतुरशीतिस्त्रीसहस्राणां प्रमुखानाम् ? न खल्वेवं द्रष्टव्यम् । एषा सा कुलपुत्र मायादेवी भगवतो माता बोधिसत्त्वजननी समन्तावभासानावरणविमोक्षप्रतिष्ठिता असंख्येयसर्वतथागतसमुद्रागमप्रत्यक्षा सर्वबोधिसत्त्वजन्मसं10 दर्शनविधिज्ञा तेन कालेन तेन समयेन पद्मश्रीगर्भसंभवा नाम राज्ञो धनतेरग्रमहिष्यभूत् । तत्कि मन्यसे कुलपुत्र-अन्या सा तेन कालेन तेन समयेन सुदर्शना नाम अग्रगणिका अभूत् ? न खल्वेवं द्रष्टव्यम् । एषा सा सुनेत्रा नाम दण्डपाणेः शाक्यस्य भार्या मम माता तेन कालेन तेन समयेन सुदर्शना नाम अग्रगणिकाभूत् । तत्किं मन्यसे कुलपुत्र अन्या सा तेन कालेन तेन समयेन सुचलितरतिप्रभासश्री म गणिकादारिकाभूत् ? 15 न खल्वेवं द्रष्टव्यम् । अहं सा तेन कालेन तेन समयेन सुचलितरतिप्रभासश्री गणिकादारिका अभूत् । तत्किं मन्यसे कुलपुत्र-अन्यः स तेन कालेन तेन समयेन तेजोधिपते राज्ञः परिवारोऽभूत् ? न खल्वेवं द्रष्टव्यम् । इमे ते बोधिसत्त्वाः सर्वे समन्तभदबोधिसत्त्वचर्याप्रणिधानपरिपूर्यां भगवता प्रतिष्ठापिता अस्मिन्नेव पर्षन्मण्डले संनिषण्णा सर्वलोकधातुप्रतिभासप्राप्तेन कायेन सर्वबोधिसत्त्वसमाधिविहारासंभिन्नेन चित्तेन सर्वतथागतः 20 संमुखभाववदनविज्ञप्तेन चक्षुषा सर्वतथागतगगनखराङ्गमेघचक्रनिगर्जितनिर्घोषविज्ञप्तेन श्रोत्रेण सर्वधर्मविहारवशवर्तिना आश्वासप्रश्वासेन सर्वबुद्धक्षेत्रानुचलितेन निर्घोषेण सर्वतथागतपर्जन्मण्डलोपसंक्रमणाप्रतिप्रनब्धेन बोधिसत्त्वकायेन बोधिसत्त्वयथाशयाभिमुखेन परिपाकविनयानुकूलेन आत्मभावाभिनिर्हारेण अशेषसर्वदिग्जालप्रसृतेन नानागतसर्वकल्पा व्यवच्छिन्नेन समन्तभद्रबोधिसत्त्वचर्याप्रणिधानपरिपूरिसमुदागमेन समन्वागता भगवतः पर्ष25 मण्डले संनिषण्णाः । स खलु कुलपुत्र सूर्यगात्रप्रवरस्तथागतस्तेजोधिपतिना चक्रवर्तिना च मया च यावज्जीवमुपस्थितोऽभूत् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः ॥ ___ तस्य खल पुनः कुलपुत्र सूर्यगात्रप्रवरस्य तथागतस्य परिनिर्वृतस्यानन्तरं तस्यामेव लोकधातौ प्रसन्नगात्रो नाम तथागतो लोक उदपादि । सोऽप्यस्माभिरारागितः सत्कृतो गुरुकृतो मानितः पूजितः । तस्यानन्तरं सर्वगात्रज्ञानप्रतिभासचन्द्रो नाम तथागतो लोक 30 उदपादि । सोऽप्यस्माभिर्देवेन्द्रभूतैरारागितः। तस्यानन्तरं जाम्बूनदतेजोराजो नाम तथागत आरागितः । तस्यानन्तरं लक्षणभूषितगात्रो नाम तथागत आरागितः। तस्यानन्तरं विचित्ररश्मिज्वलनचन्द्रो नाम तथागत आरागितः । तस्यानन्तरं सुविलोकितज्ञानकेतुर्नाम तथागत 8421
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy