________________
B166
३२८ गण्डव्यूहसूत्रम् ।
[४३.८९विकुर्वितानि संदर्य बुद्धवैनयिकानां सत्त्वानामाशयान् विशोध्य तस्यां वेलायामचिन्त्येन बुद्धाधिपतेयेन सर्वलोकाभ्युद्गतेन बुद्धकायेन सर्वखराङ्गसागरसंप्रयुक्तेन बुद्धघोषेण सर्वधर्मवितिमिरार्थप्रदीपं नाम धारणीमुखं संप्रकाशयामास बुद्धक्षेत्रपरमाणुरजःसमधारणीमुखपरिवारम् । अथ राज्ञो धनपतेस्तद्धारणीमुखं श्रुत्वा सर्वधर्मेषु महान् धर्मावभासः प्रादुरभूत् । 5 तस्यां च पर्षदि जम्बुद्वीपपरमाणुरजःसमानां वोधिसत्त्वानां सर्वधर्मवितिमिरार्थप्रदीपाया धारण्याः प्रतिलम्भोऽभूत् । षष्टेश्च प्राणिनियुतानामनुपादाय आस्रवेभ्यश्चित्तानि विमुक्तानि । दशानां च प्राणिसहस्राणां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम् । अपरिमाणानामनुत्पन्नपूर्वमनुत्तरायां सम्यक्संवोधौ चित्तमुत्पन्नम् । दशसु दिक्षु अचिन्त्यबुद्धविकुर्वितसंदर्शनेनानन्तमध्यः सत्त्वधातुर्विनयमगमात् त्रिभिर्यानैः ॥ 10 राज्ञश्च धनपतेर्महाधर्मावभासंप्रतिलब्धस्य एतदभवत्-न शक्यमगारमध्यावसता इमा एवंरूपा धर्मा अधिमोक्तुम् , एवंरूपं च ज्ञानं निष्पादयितुम् । यन्वहं भगवतोऽन्तिके प्रव्राजयेयम् । अथ खलु राजा धनपतिस्तं भगवन्तमेतदवोचत्-लभेयाहं भगवतोऽन्तिके प्रव्रज्यामुपसंपदं भिक्षुभावम् । आह-यस्येदानी महाराज कालं मन्यसे ।
अथ खलु राजा धनपतिः सूर्यगात्रप्रवरस्य तथागतस्यान्तिके प्रावजत् सार्धं दशभिः 1 प्राणिसहस्रैः। तेन अचिरेण प्रव्रजितेन सर्वधर्मवितिमिरार्थप्रदीपं धारणीमुखं सपरिवार निष्पादितं भावितम् , तावन्त्येव च समाधिमुखानि प्रतिलब्धानि । दश च बोधिसत्त्वाभिज्ञाः प्रतिलब्धाः। अनन्तमध्यं च प्रतिसंविनयसागरामवतीर्णः। असङ्गगोचरा च नाम कायपरिशुद्धिः दशदिक्तथागतोपसंक्रमणेषु प्रतिलब्धा । स तस्य भगवतो धर्मचक्र प्रतीच्छितवान् संधारितवान् , कथापुरुषत्वं च कारयामास । महाधर्मभाणकत्वं च अकरोत् । 20 शासनपरिग्रहं चाकार्षीत् । अभिज्ञाप्रतिलाभबलेन च सर्वावती लोकधातुं स्फरित्वा यथाशयानां सत्त्वानां कायं संदर्य एतं बुद्धोत्पादं प्रभावयन् तां सर्वतथागतसमुदयधर्मतामभिद्योतयन् तां पूर्वयोगसंपदं संप्रकाशयन् तं बुद्धविकुर्वितप्रभावं संवर्णयमानः शासनपरिग्रहमकार्षीत् ॥
तेजोधिपतिना च राजपुत्रेण तत्रैव दिवसे पूर्णायां पूर्णमास्यां सप्त रत्नानि प्रति25 लब्धानि । तस्योपरिप्रासादतलगतस्य स्त्रीगणपरिवृतस्य पुरस्तादप्रतिहतवेगं नाम शतसहस्रारं
सर्वरत्नसमलंकृतं दिव्यं जाम्बूनदसुवर्णमयं समन्तप्रभ सर्वाकारवरोपेतं महाचक्ररत्नं प्रादुरभूत् । वज्ररत्नगिरितेजश्च नाम महाहस्तिरतं प्रादुरभूत् । नीलगिर्यनिलवेगं च नाम अश्वरतं प्रादुरभवत् । आदित्यगर्भप्रभमेघराजं च नाम महामणिरत्नं प्रादुरभवत् । सा च सुचलितरतिप्रभासश्री दारिका स्त्रीरनं प्रादुरभवत् । प्रभूतधनस्कन्धं च नाम गृहपतिरत्नं 30 प्रादुरभवत् । विमलनेत्रं च नाम परिणायकानं सप्तमं प्रादुरभवत् । स सप्तरत्नसमन्वागतो
राजाभवचक्रवर्ती चतुर्तीपेश्वरो धार्मिको धर्मराजो विजितावी जनपदस्थामवीर्यप्राप्तः । पूर्ण खलु पुनरस्य सहनं पुत्राणामभूच्छूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम् । स
8418