________________
416
-४३.८९]
४३ गोपा। प्रत्यलभत । सर्वबुद्धमण्डलाभिमुखनिर्याणं च नाम समाधिमुखं प्रत्यलभत । सर्वसत्त्वप्रवरावभासप्रवेशं च नाम समाधिमुखं प्रत्यलभत । सर्वलोकसमुदयज्ञानावभासप्रतिपन्नं च नाम समाधिमुखं प्रत्यलभत । सर्वसत्त्वेन्द्रियसमुद्रावभासप्रदीपं च नाम समाधिमुखं प्रत्यलभत । सर्वजगत्परित्राणज्ञानमेधं च नाम समाधिमुखं प्रत्यलभत । सर्वसत्त्वजगत्परिपाकविनयाभिमुखप्रदीपं च नाम समाधिमुखं प्रत्यलभत । सर्वतथागतधर्मचक्रनिर्घोप- 5 विज्ञपनं च नाम समाधिमुखं प्रत्यलभत । समन्तभद्रचर्यामण्डलपरिशुद्धिप्रणिधिमेघं च नाम समाधिमुग्वं प्रत्यलभत । इमानि दश समाधिमुखानि प्रमुख कृत्वा सर्वधर्मनयेषु दशसमाधिमुखसमुद्रान् प्रत्यलभत । सुचलितरतिप्रभासश्रीश्च दारिका दुर्योधनज्ञानसागरगर्भ च नाम चित्तनिध्यप्तिं प्रत्यलभत, अवैवर्तिका चाभूदनुत्तरायां सम्यक्संबोधौ ॥ ___अथ खलु तेजोधिपती राजपुत्रः भगवतः सूर्यगात्रप्रवरस्य तथागतस्य पादौ शिर- 10 साभिवन्ध तं भगवन्तमनेकतसहस्रकृत्वः प्रदक्षिणीकृत्य सुचलितरतिप्रभासश्रिया दारिकया सर्वपरिवारेण च साधू तस्य भगवतोऽन्तिकात्याक्रामत् । स येन द्रुममेरुश्री राजधानी, येन च पिता राजा धनपतिस्तेनोपजगाम । उपेत्य पितुर्धनपते राज्ञः पादौ शिरसाभिवन्ध एतमर्थमारोचयामास-यत्खलु देव जानीयाः-सूर्यगात्रप्रवरो नाम तथागतोऽईन् सम्यक्संयुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनु-15 ष्याणां बुद्धो भगवान् । इहैव तव विजिते धर्ममेघोगतप्रभासे बोधिमण्डे विहरत्यचिराभिसंबुद्धः । अथ खलु राजा धनपतिस्तेजोधिपतिं कुमारमेतदवोचत्-केन ते कुमार अयमर्थ आरोचितो देवेन वा मनुष्येण वा ? स प्राह-सुचलितरतिप्रभासश्रिया दारिकयेति ॥
अथ खलु राजा धनपतिर्बुद्धोत्पादश्रवणेन महानिधानप्रतिलाभसंज्ञी सुदुर्लभवुद्धरत्नपरिलाभसंज्ञी तथागतदर्शने सर्वदुर्गतिप्रपातभयविनिवर्तनसंज्ञी सर्वक्लेशव्याधिप्रशमनमहा- 20 वैद्यराजप्रतिलाभसंज्ञी सर्वसंसारदुःखपरिमोचकसंज्ञी अत्यन्तयोगक्षेमप्रतिष्ठापकसंज्ञी वितिमिरज्ञानालोकदर्शकसंज्ञी अविद्यान्धकारविध्वंसनमहोल्काप्रादुर्भावसंज्ञी अनायकस्य लोकस्य धर्मनयविनायकप्रतिलाभसंज्ञी अपरिणायकस्य सर्वज्ञतायानपरिणायकसमुत्पादसंज्ञी महाप्रीतिप्रसादप्रामोद्यप्रतिलब्धो बुद्धोत्पादं श्रुत्वा क्षत्रियब्राह्मणनैगमजनपदामात्यपुरोहितकुमारकोट्टराजानो दौवारिकपार्षद्यांश्च संनिपात्य बुद्धोत्पादानन्दशब्दावेदिनस्तेजोधिपतेः कुमारस्य 25 तद्राज्यं धर्माच्छादं प्रादात् । स तं कुमारं राज्येऽभिषिच्य साधं दशभिः प्राणिसहस्रैर्येन भगवान् सूर्यगात्रप्रवरस्तथागतस्तेनोपजगाम । उपेत्य तस्य भगवतः पादौ शिरसाभिवन्द्य तं भगवन्तमनेकशतसहस्रकृत्वः प्रदक्षिणीकृल्य तस्य भगवतः पुरस्तान्न्यषीदत् सार्धं स्वकेन परिवारेण ॥
अथ खल कुलपुत्र स भगवान् सूर्यगात्रप्रवरस्तथागतो धनपति राजानं सर्वावच्च 30 पर्षन्मण्डलमवलोक्य तस्यां वेलायामूर्णाकोशात्सर्वजगचित्तप्रदीपं नाम रश्मि प्रामुञ्चत् । सा दशसु दिक्षु सर्वलोकधातूनवभास्य सर्वलोकेन्द्रानभिमुखं परिसंस्थाप्य अचिन्त्यानि बुद्ध
.
8417