________________
10
३२६ गण्डव्यूहसूत्रम् ।
[४३.८६श्रुत्वैव यद्दोषतमोविघाति
कर्माशुभं नाभिलषन्ति कर्तुम् ॥ ८६ ॥ शुद्धाशया निर्मलमानसेयं
सर्वत्र शाठ्यं न हि विद्यतेऽस्याः । यद्भाषते चेतसि तत्तथैव ___ यतो जगत्तोषयति खरेण ॥ ८७ ॥ न मायया मोहयते च सत्त्वान् ___ विलोभयत्येव च नार्थहेतोः। लज्जावती संवृतमानसेयं __ सगौरवा वृद्धनवेषु नित्यम् ॥ ८८ ॥ न जातिगोत्रेण न रूपमत्ता
तथैव नेयं परिवारमत्ता। मदेन मानेन च विप्रयुक्ता
____नम्रा जिनेषु प्रणता सदैव ॥ ८९ ॥ 15 अथ खलु तेजोधिपती राजपुत्रः सपरिवारया सुचलितरतिप्रभासश्रिया दारिकया विशल्या कन्यासहस्रैः परिवारेण च साधं ततो गन्धाङ्करशिखरप्रभमेघादुद्यानान्निष्क्रम्य येन धर्मोद्गतप्रभासो बोधिमण्डो येन च भगवान् सूर्यगात्रप्रवरः तथागतः, तेनोपसंक्रान्तोऽभूत् भगवतः सूर्यगात्रप्रवरस्य तथागतस्य दर्शनाय वन्दनाय पूजनाय पर्युपासनाय । स यावद्यानस्य
भूमिस्तावद्यानेन गत्वा यानादवतीर्य पद्भयामेव भगवतः सूर्यगात्रप्रवरस्य तथागतस्यान्तिकमुप20 संक्रामन् अद्राक्षीत्तेजोधिपती राजपुत्रो भगवन्तं सूर्यगात्रप्रवरं तथागतर्महन्तं सम्यक्संबुद्धं
दूरत एव प्रासादिकं दर्शनीयं शान्तेन्द्रियं शान्तमानसं गुप्तेन्द्रियं नागमिव सुदान्तं हृदमिवाच्छं अनाविलं विप्रसन्नम् । दृष्ट्वा चास्य चित्तमभिप्रसन्नम् । प्रसन्नचित्तो बुद्धदर्शनमहाप्रीतिप्रसादवेगान् संवर्धयामास । महाप्रीतिवेगप्रसादप्रामोद्यपरिस्फुटेन चित्तेन तं भगवन्तमनेक
शतसहस्रकृत्वः प्रदक्षिणीकृत्य तस्य भगवतः पादौ शिरसाभिवन्ध साध सुचलितरति25 प्रभासश्रीदारिकाप्रमुखेन सर्वपरिवारेण पञ्चभिर्महामणिरत्नपद्मशतसहस्रैः तं भगवन्तममिच्छादयामास । पञ्च च विहारशतानि सर्वगन्धमणिरत्नमयानि सर्वमणिरत्नराजविचित्राणि तस्य भगवतः कारयामास । एकैकं च विहारं पञ्चभिर्महामणिरत्नराजशतसहस्रः प्रतिमण्डयामास ॥
अथ खल्ल कुलपुत्र स भगवान् सूर्यगात्रप्रवरस्तथागतः तेजोधिपते राजकुमारस्य 30 अध्याशयं विदित्वा समन्तनेत्रद्वारप्रदीपं नाम सूत्रान्तं संप्रकाशयामास । स तं श्रुत्वा
सर्वधर्मनयेषु दश समाधिमुखसमुद्रान् प्रत्यलभत । यदुत-सर्वतथागतप्रणिधानसागरसंभवावभासं नाम समाधिमुखं प्रत्यलभत । त्र्यध्वावभासगर्भ च नाम समाधिमुखं
B165
8415