SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ 8414 -४३.८५] ४३ गोपा। पञ्चभिर्मणिरत्नशतैरभ्यवकीर्य श्रीगर्भप्रभासं नाम चूडामणिरत्नमस्याः प्रादात् । अग्निवर्णेन चैनां महामणिरत्नचित्रेण वस्त्ररत्नेनाच्छादयामास । सैवं सत्कृता न हृष्यति नोत्प्लुवति न चरति वा प्रमादं वागमत् अन्यत्र कृताञ्जलिपुटा अनिमिषनयना तेजोधिपतेः कुमारस्य वदनं प्रेक्षमाणा स्थिताभूत् ॥ अथ खलु सुदर्शना अग्रगणिका तेजोधिपतिं राजकुमारं गाथाभिरध्यभाषत- । दद्यामिमां ते खलु दारिकां ह मित्येवमासीन्मम दीर्घरात्रम् । सेयं प्रदत्ता तव चारुरूपा ___ स्खलंकृता पुण्यगुणैरुपेता ॥ ८० ॥ मनुष्यलोके सदृशी न कन्या संविद्यतेऽस्याः क्वचिदुत्तमा या । शीलेन बुद्ध्याथ गुणैस्तथान्यैः ___ स्त्रीणां वरेयं खलु सर्वलोके ॥ ८१ ॥ पद्मोद्भवेयं न हि जातिवादः संदूषणामर्हति निर्मलत्वात् । अशेषदोषानुपलिप्तचित्ता __ चर्यासभागा तव संबभूव ।। ८२ ।। सर्वोत्तमस्पर्शसुखावहानि गात्राणि चास्याः परमं मृदूनि । व्याध्यातुराः संस्परिशेन येषा मरोगतां तत्क्षणमेव यान्ति ॥ ८३ ।। योऽस्याः शुभो वाति हि गात्रगन्धो ___ वरांस्तदन्यानभिभूय गन्धान् । तं गन्धमाघ्राय विशुद्धशील प्रतिष्ठिता सर्वनरा भवन्ति ॥ ८४ ॥ अस्या हि कायः कनकप्रकाशो विरोचते निर्मलपद्मगर्भः। क्रुद्धा यमुदीक्ष्य हि मैत्रचित्ता भवन्ति सर्वे निखिलेन सत्त्वाः ॥ ८५ ॥ स्निग्धं वचोऽस्या मधुरं मनोज्ञ कान्तं जनानां श्रवणाभिरामम् । 20 १% यस्याः. २% च नानाश्रवणाभिरामम्.
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy