SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ S 413 5 10 15 20 ३२४ 25 30 गण्डव्यूहसूत्रम् । इच्छाम्यहं स्वामिन मग्रसत्त्वं भागचर्या चरणाय तु त्वाम् ॥ ७२ ॥ शुद्धाभिनलेक्षण मैत्रचित्ता यक्षसे त्वं खलु सर्वलोके । आरक्तचित्तः करुणायमानो निःसंशयं त्वं भविता मुनीन्द्रः ॥ ७३ ॥ यथा क्रमात्प्रक्रमतो मही ते रत्नोज्ज्वला तिष्ठति निर्मलेयम् । सल्लक्षणालंकृत चक्रवर्ती निःसंशयं त्वं भविता नृलोके ॥ ७४ ॥ स्वप्नान्तरेऽपश्यमहं रजन्यां सुधर्ममेघप्रभबोधिमण्डे । द्रुमेन्द्रमूले सुगतं निषण्णं पुरस्कृतं बुद्धसुतैरनेकैः ॥ ७५ ॥ तं सूर्यगात्रप्रवरं जिनेन्द्रं जाम्बूनदोत्तप्तमहाद्रिकल्पम् । स्वान्तरे मकरोत्स मेऽद्य पाणि प्रबुद्धा मुदिता ततोऽहम् ॥ ७६ रतिप्रभा नाम विशुद्धकाया पुराण सलोहितदेवता मे । आरोचयत्येष तथागतोऽस्मिन् संबोधिमण्डे विचरत्युदारे ॥ ७७ ॥ अभूत्पुरा मे खलु चेतनैव मीक्षेय तेजोधिपतिं कुमारम् । आरोचितं देवतया कुमारं त्वं द्रक्ष्यसीत्यद्य निशान्तरे मे ॥ ७८ ॥ स्वप्नान्तरे मे सुगतोऽद्य दृष्टः त्वं चैव दृष्टः परिशुद्धसत्त्वः । सार्धं त्वयावाप्तमनोरथा तं पूजयिष्यामि मुनीन्द्रमद्य ॥ ७९ ॥ [ ४३.७२ अथ खलु तेजोधिपती राजपुत्रः सूर्यगात्रप्रवरस्य तथागतस्य नामधेयं श्रुत्वा बुद्धदर्शनावकाशप्रतिलब्धो महाप्रीतिप्रसादवेगसंजातः सुचलितरतिप्रभासश्रियं दारिकां
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy