SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ -४३.७१] ४३ गोपा। ३२३ एवमुक्ते सुचलितरतिप्रभासश्रीर्दारिका तेजोधिपतिं राजपुत्रमेतदवोचत्-तथा भवतु कुमार यथा वदसि । अहं ते यथाकामं करणीया यथेच्छापरिभोग्या येनकामंगमा सर्वत्रात्यन्तानुगामिनी नित्यानुबद्धा सर्वकार्योत्सुका आशयानुकूलोपचारा सम्यक्पराक्रमा अविषमप्रतिपत्तिप्रयोगोपचारा भविष्यामि ॥ अथ खलु सुचलितरतिप्रभासश्रीर्दारिका तेजोधिपतिं राजपुत्रं गाथाभिरध्यभाषत- । कायो हि यन्मे नरकाग्निनायं संताप्यमानो विलयं प्रयायात् । जन्मार्णवानप्यहमुत्सहामि ___ चर्यासभागा परिचारिका ते ।। ६६ ॥ जातिष्वनन्ताखपि जातजात श्छिद्येत कायो यदि मेऽतिमात्रम् । तदुत्सहेऽहं स्थिरधीरचित्ता । भर्ता भव त्वं मम साधुरूप ॥ ६७ ॥ कल्पाननन्तानपि चक्रवालाः कैच्चिच्छिरो मे परिचूर्णयेयुः। आक्कान्तचित्तापि तदुत्सहेऽहं खामी भव त्वं मम साध्वचिन्त्य ॥ ६८॥ जात्यन्तराण्यप्यमितानि च त्वं छित्त्वाङ्गमात्मानि परस्य देहि । चेतोवशित्वं मयि संनिवेश्य दृढं |तिष्ठापय मां खधर्मे ॥ ६९ ॥ अत्यन्तमेव प्रतिपादयामि कायं तवेमं नरदेवपुत्र । चयाँ चरन् कल्पमहासमुद्रान् प्रयच्छ मामर्थिजनाय हृष्टाम् ॥ ७० ॥ संप्रस्थितस्त्वं प्रवराग्रबोधौ सत्त्वेषु संजन्य कृपामनन्ताम् । अशेषसत्त्वार्णवसंग्रहाय गृह्णीष्व मामप्यनुकम्पयातः ॥ ७१ ॥ न भोगहेतोर्न धनस्य हेतो न कामचर्यारतिसंभवार्थम् । - १% अथ. २ कच्चित्स्थिरा. ३ प्रतिष्ठापयामास धर्मे.
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy