SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ३२२ [४३.५८ 10 गण्डव्यूहसूत्रम् । त्र्यध्वस्थितानां च मया जिनानां संशिक्षिता पारमितापथेषु । विशोधनीयो वरबोधिमार्गों निरुत्तरज्ञानमहानयेन ॥ ५८ ॥ क्षेत्राणि सर्वाण्यपि सर्वदिक्षु क्लिष्टानि शोध्यानि मयाखिलानि । सर्वाक्षणा दुर्गतयश्च सर्वा व्यावर्तनीयाः खलु सर्वलोके ॥ ५९॥ सर्वे च सत्त्वा निखिला विशोध्याः क्लेशावृता मोहतमोन्धभूताः। प्रपाचयित्वा विविधैरुपायैः सर्वज्ञतामार्गनये निवेश्याः ॥ ६०॥ भूमीरसङ्गाश्च मया विशोध्या ___ कल्पार्णवाश्चैव जिनाः प्रपूज्याः। मैत्री च संजन्य जगत्यशेषे देयानि दानान्यखिलानि लोके ॥ ६१ ॥ समागतान् याचनकानुदीक्ष्य सर्वप्रदानाभिरतस्य नित्यम् । मा लीनदीना कृपणा तदानीं भूया मम त्वं विसभागचित्ता ॥ ६२ ॥ शिरोर्थिनो मेऽर्थमुदीक्ष्य धीमान् चयोमुदारा च रतस्तदानीम् । भविष्यसि त्वं भृशदुःखतप्ता श्रुत्वैवमर्थं स्थिततामुपैहि ॥ १३ ॥ त्वं दौर्मनस्यं मम हस्तपाद__ च्छेदान् प्रदास्याम्यपि याचकानाम् । कटूनि वक्ष्यस्यबलातरूपा _श्रुत्वैतमर्थं परिचिन्तयख ॥ ६४ ॥ प्रियाणि वस्तूनि तथैव पुत्रान् दास्यामि च त्वामहमर्थिनः सन् । श्रुत्वैतमर्थं यदि ते न सादः सर्व तथैवास्तु यथा तवेष्टम् ॥ ६५ ॥ B164 "20 8 412 25 १% भूयो.
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy