________________
३२१
-४३.५७]
४३ गोपा। ज्ञाने न चास्याः सदृशास्ति योपि
देषानुरूपा तव राजपुत्र ॥ ५५ ॥ अथ खलु तेजोधिपती राजपुत्रो गन्धाकुरशिखरप्रभमेघमुद्यानं प्रविश्य सुचलितरतिप्रभासश्रियो दारिकाया मातुरग्रगणिकायाः सुदर्शनायाः समक्षं सुचलितरतिप्रभासश्रियं दारिकामेतदवोचत्-अहं खलु दारिके अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थितः । तेन मया । अपरिमाणाः सर्वज्ञतासंभाराः समुदानयितव्याः । अनन्तमध्यान् कल्पान् बोधिसत्त्वचयां चरता सर्वपारमिताः परिशोधयितव्याः । अपरान्तकोटीगतान् कल्पांस्तथागताः पूजयितव्याः । सर्वबुद्धशासनानि संधारयितव्यानि । सर्ववुद्धक्षेत्राणि परिशोधयितव्यानि । सर्वतथागतवंशा न व्यवच्छेत्तव्याः। सर्वसत्त्ववंशाः परिपाचयितव्याः । सर्वसत्त्वसंसारदुःखानि विनिवर्तयितव्यानि । अत्यन्तसुखे सत्त्वाः प्रतिष्ठापयितव्याः। सर्वसत्त्वानां ज्ञानचक्षुः परिशोधयितव्यम् । 10 सर्वबुद्धबोधिसत्त्वसमुदागमे प्रयोक्तव्यम् । सर्ववोधिसत्त्वसमतायां स्थातव्यम् । सर्वबोधिसत्त्वभूमयो निष्पादयितव्याः। सर्वसत्त्वधातुः परिशोधयितव्यः । सर्वसत्त्वदारिद्र्यव्यवच्छेदाय सर्वखपरित्यागिना भवितव्यम् । अपरान्तकोटीगतान् कल्पान् दानपारमितायां चरता अन्नपानदानेन सत्त्वाः संतर्पयितव्याः । सर्वोपकरणवस्तुपरित्यागेन सर्वयाचनकसंघः संतर्पयितव्यः । तेन मया सर्वस्वपरित्यागितायां प्रतिपद्यमानेन नास्ति तदाध्यात्मिकं बाह्यं वा 15 वस्तु यन्न परित्यक्तव्यम् । तेन मया पुत्रदुहितुभार्या दातव्याः । चक्षुःशिरोहस्तपादसर्वाङ्ग- प्रत्यङ्गानि परित्यक्तव्यानि । सा त्वं मम तदा परेषु प्रतिपद्यमाना दानान्तरायं करिष्यसि । प्रियेषु पुत्रेषु परित्यज्यमानेष्वनात्तमना भविष्यसि । बहु कायिकचैतसिकं दुःखं प्रत्यनुभविष्यसि । मम सर्ववपरित्यागचित्ते प्रत्युपस्थिते मात्सर्यचित्तमुत्पादयिष्यसि । ममाङ्गप्रत्यङ्गानि च्छित्त्वा याचनकेभ्यः परित्यज्यमानस्य दुःखिता दुर्मनखिनी भविष्यसि । 20 भविष्यति च स कालो यदहं त्वां परित्यज्य तथागतशासने प्रव्रजिष्यामि । सा त्वं तस्मिन् समयेऽनात्तमना भविष्यसि ॥
___ अथ खलु तेजोधिपती राजपुत्रः तस्यां वेलायां सुचलितरतिप्रभासश्रियं दारिकां गाथाभिरध्यभाषत
संबोधिसंभारमहासमुद्रा
मयाप्रमेयाः परिपूरणीयाः। यतः कृपां सर्वजगत्सु कृत्वा
संप्रस्थितोऽहं सुचिराय बोधौ ।। ५६ ॥ कल्याणवैः सम्यगनन्तमध्यैः ___ व्योमाप्रमाणैः प्रणिधिर्विशोध्यः । प्रस्थानभूमेश्च तथागतानां
कल्पाननन्तान् परिकर्म कार्यम् ॥ ५७ ॥ १8 परिपालयितव्याः.
11
गण्ड.४१