SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ B 101 ३१२ गण्डव्यूहसूत्रम् । [४३.२२रत्नजालसंछादितव्यूह महामणिरत्नराजव्यूहगर्भमध्यप्रतिष्ठापितसिंहासनं पञ्चकन्याशतरत्नसूत्रदामपरिगृहीतं गगनासक्तवायुसमजवाजानेयाश्वसहस्रयुक्तम् अनुपूर्वपरिणतचारुदर्शनेन श्वेतवैडूर्यमणिराजमयच्छदनेन विमलाप्रमाणप्रभेण अचिन्त्याद्भुतसर्वरत्नविरचनाभक्तिविन्यासचित्रसर्वाकारव्यूहोपशोभितेन नीलवैडूर्यमणिराजोद्विद्धदण्डेन महता रत्नच्छत्रेण प्रियता बहु। प्राणिशतसहस्रपरिवृतदिव्यमधुरमनोज्ञनि|पैस्तूर्यशतसहस्रैः प्रवाद्यमानैः महद्भिः पुष्पमेधैरभिप्रवर्षद्भिः सुरभिदिव्यगन्धधूपघटिकानियुतशतसहस्रैः प्रधूप्यमानैः । तस्य तथा ब्रजतोऽष्टवा मार्गः समवस्थिपत निम्नोन्नतविगतोऽपगतशर्करकठल्लोत्सदो जातरूपरजतसर्वरत्नराजधातुसंचितभूमितलप्रतिष्ठानः सुवर्णवालिकासंस्तीर्णो विचित्ररत्नपुष्पाभिकीर्णः उभयतो रत्नवृक्षपतिसमलंकृतविचित्ररत्नवेदिकापरिवृतः । उपरि रत्नकिङ्किणीजालसंछन्नो 10 विविधरत्नविततप्रतिमण्डितोऽनेकरत्नध्वजपताकापट्टशतसहस्राभिप्रलम्बितोपशोभितव्यूहः उभयतो नानारनव्योपैकपतिविरचितव्यूहः ॥ तत्र केषुचिद्रतव्योमकेषु विविधरत्नपरिपूर्णानि रत्नभाजनानि स्थापितान्यभूवन् याचनकसंघप्रतिपादनकार्थम् । क्षेषुचिद्व्योमकेपु सर्वरत्नाभरणविधयः स्थापिता अलंकारार्थिनां याचकानामलंकरणार्थम् । केषुचिढ्योमकेषु चिन्तामणिरत्नानि स्थापितानि सर्वसत्त्वानां 15 सर्वाभिप्रायपरिपूरणार्थम् । केषुचिद्व्योमकेपु सर्वाकारविविधान्नपानरसपरिपूर्णानि भोजनानि स्थापितानि, यस्य येनार्थः तस्य तं प्रतिपादनार्थम् । केषुचिढ्योमकेषु सर्वाकारपरमखादुमनोज्ञवर्णगन्धरसस्पर्शाः दिव्यभक्तविधयः स्थापिताः। केषुचिद्व्योमकेषु विचित्ररसाखादा दिव्यसर्वफलविधयः स्थापिताः । केषुचिव्योमकेषु विविधोज्ज्वलविचित्ररङ्गरक्तानि नानाचित्रभक्तिविन्यासविराजितानि परममहार्हाणि सूक्ष्माणि सुकुमारकान्तवर्णानि दिव्यवस्त्रकोटी20 शतसहस्राणि स्थापितानि वस्त्रार्थिनां यथाभिप्रायपरिभोगार्थम् । केषुचिद्व्योमकेषु सर्वाकार विविधदिव्यमनोज्ञवर्णगन्धाः सर्वगन्धविधयः स्थापिता अभूवन् विलेपनार्थिनां यथाभिप्रायपरिभोगार्थम् । केषुचिढ्योमकेषु सर्वोपकरणराशयः स्थापिता अभूवन् सत्त्वानां यथाशयाभिप्रायपरिभोगार्थम् । केषुचिढ्योमकेषु नार्योऽभिरूपाः प्रासादिका दर्शनीया विविधचारु रूपवेशा विचित्रमनोज्ञवस्त्रसंधिताः सर्वाभरणखलंकृता विविधविलेपनभक्तिविन्यासप्रति25 मण्डितोपशोभितशरीराः सर्वस्त्रीशिल्पमायाकलाविधिज्ञाः स्थापिता अभूवन् ॥ तेन खलु पुनः समयेन तस्यामेव द्रुममेरुश्रियां राजधान्यां सुदर्शना नाम अग्रगणिकाभूद्राजपरिभोग्या । तस्याः सुचलितरतिप्रभासश्री म दारिकाभूदभिरूपा प्रासादिका दर्शनीया नातिदीर्घा नातिहखा नातिस्थूला नातिकृशा नातिगौरा नातिश्यामा अभिनीलनेत्रा अभिनीलकेशी अभिरामवक्त्रा ब्रह्मखरा मधुरप्रियवादिनी प्राज्ञा सर्वकला80 विधिज्ञा सर्वशास्त्रकोविदा दक्षा अनलसा सगौरवा सप्रसादा मैत्रचित्ता अप्रतिघातबहुला अतृप्तिकरमनापदर्शना मन्दरागदोषमोहा हयपत्राप्यसंपन्ना मार्दवा ऋज्वी अशाट्या अमाया १ प्रियता. २ B व्यामक throughout. ३ B om. चिन्तामणि.
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy