________________
-४३.२२]
४३ गोपा। रभवत् । प्रभूता चास्य जिह्वा अभूत् तन्वी मृद्वी सुकुमारा कर्मण्या कमनीया लघुपरिवर्तिनी मुखमण्डलसंछादनी तथ्यपथ्यार्थव्यञ्जनपदनिरुक्त्यधिष्ठानसंप्रयुक्ता । ब्रह्मस्वरश्च स कुमारोऽभूदभिरुचिरस्वरः सर्वतूर्यनिर्नादगीतवाद्यघोषमनोज्ञरुतरवितालापसंलापवाकर्मप्रव्याहारः । वाक्पथाभिरतिसंजननीं सर्वलोकाभिनन्दिनीं वाचमुदीरयति स्म । ब्रह्मातिरेकेण खरेण च पर्षन्मण्डलमतिकामति, सर्वं च अनुरवति । अभिनीलनेत्रश्च स कुमारोऽ- 5 भूदच्छनेत्रः परिशुद्धनेत्रः प्रभाखरनेत्रः विप्रसन्ननेत्रोऽभिरूपनेत्रो दर्शनीयनेत्रः सुरुचिरनेत्रः ग्रहसितनेत्रः । गोपक्ष्मो स कुमारोऽभूत्पद्मरागसुविशुद्धचक्षुरायतनः समनेत्ररङ्गः समसदृशनेत्ररङ्गः सुजातनेत्ररङ्गः आयतनेत्ररङ्गः परिपूर्णनेत्ररङ्गः सुप्रतिष्ठितनेत्ररङ्गः । भ्रुवोन्तरे चास्य ऊर्णा जाताभून्मृद्वी कर्मण्या सुकुमाराकुलसंस्पर्शा स्वच्छा शुद्धा प्रभाखरा हिमगुडिकातुषारवर्णा सुशुक्लरश्मिमण्डलप्रभावभासा । मूर्ध्नि च अस्योष्णीपमभिनिवृत्तमभूत् सुजातं समन्त-10 5 402 परिमण्डलं मध्याभिन्यस्तकेशालंकारं कोटीशतसहस्रपत्ररत्नपद्मसंदर्शितं समन्तात्समभागप्रतिष्ठितमपरिमितमहार्यताप्रधानमध्यम् । सूक्ष्मच्छविश्च स कुमारोऽभूत् । नास्य काये रजो वा मलो वा क्लेदो वा जालं वा वली वा शैथिल्यं वा भङ्गो वा प्रसरणं वा विसरणं वा असमं वा अस्थिषत । सुवर्णवर्णच्छविश्च स कुमारोऽभूजाम्बूनदहेमनिर्भासः समन्तव्यामप्रभः काञ्चनैकव्वालाप्रभामण्डलोपशोभितः सर्वरोमकूपप्रमुक्तगन्धरश्मिवितिमिरप्रभाखरशरीरालं-15 कारः। एकैकरोमा च स कुमारोऽभूत् । एकैकरोमस्य एकैकस्मिन् रोमकूपे रोम जातमभून्नीलवैडूर्यवर्णप्रदक्षिणावर्तकुण्डलजातं सुपरिसंचितं सुनिविष्टं सुप्रतिष्ठितम् । ऊर्ध्वाङ्गोमा च स कुमारोऽभूदविनिवर्तनीयरोमा अप्रत्युदावर्तनीयरोमा असंसृष्टरोमा । इन्द्रनीलवर्णकेशतामहापुरुषलक्षणप्रतिलब्धः स कुमारोऽभूत् । तस्य नीलाः केशा अभूवन् वैरोचनमणिरत्ननीलवर्णनिर्भासाः स्निग्धा मृदवः सुकुञ्चिताः प्रदक्षिणावर्तकुण्डलिनः सुजातमूला अनुद्धताः 20 निष्पीडिता असंललिताः समसदृशस्थानसंस्थिताः । न्यग्रोधपरिमण्डलतामहापुरुषलक्षणप्रतिलब्धः स खलु पुनः तेजोधिपती राजकुमारोऽभूत् समन्तभद्रपरिमण्डलः समन्तभद्रः समन्तप्रासादिकः। स पुरतोऽप्यतृप्तिकरचारुदर्शनोऽभूत्। पृष्ठतोऽपि दक्षिणतोऽपि वामतोऽपि गच्छन्नपि तिष्ठन्नपि निषण्णोऽपि भाषमाणोऽपि तूष्णीभूतोऽपि अतृप्तिकरमनापचारुदर्शनोऽभूत् । एभिः कुलपुत्र द्वात्रिंशता महापुरुषलक्षणैः समलंकृतकायः स तेजोधिपती राज- 25 कुमारोऽभूत् सर्वसत्त्वाप्रतिकूलदर्शनः सर्वाभिप्रायपरिपूरिकदर्शनः सर्वसत्त्वरतिकरदर्शनः॥
___स खलु कुलपुत्र तेजोधिपती राजकुमारोऽपरेण समयेन पित्राभ्यनुज्ञातो ममेरुटियो राजधान्या गन्धाकुरप्रभमेघं नामोद्यानम् , तत्र भूमिदर्शनाय अभिनिर्ययौ विंशत्या कन्यासहः साधु महता पुण्यतेजौजःश्रीसौभाग्यविकुर्वितव्यूहेन नरनारीगणैः समन्तादमिनन्धमानो जाम्बूनदसुवर्णरथमारुह्य महावज्ररत्नचतुश्चक्रं नारायणवज्रमयदृढाक्षयाक्षमुत्तमचन्दनसुपरि-30 निष्ठितप्रतिष्ठितेषं सर्वगन्धमणिराजसुविभक्तपञ्जरं सर्वरत्नपुष्पसुविचित्रोपशोभितव्यूहं सर्व
१S om. प्रहसितनेत्रः. २ S अनुभूताः.