________________
३१० गण्डव्यूहसूत्रम्।
[४३.२२हस्तपादतलान्यभूवन् काचिलिन्दिकातिरेकसुखसंस्पर्शानि । स तैर्यान् स्पृशति स्त्रियं वा पुरुषं वा दारकं वा दारिकां वा, सर्वे ते प्रीतिमनसोऽभूवन् परमसुखसौमनस्यसमर्पिताः । ऐणेयजङ्घता चास्य अभिनिवृत्ताभूत् । तस्य जो अनुपूर्वसमुद्गते अभूतां रचिते वृत्ते सुजाते ऐणेयस्येव मृगराज्ञः । नैनं कश्चित्समर्थोऽनुजवितुमनुप्राप्तुं वा, न च व्रजन् कममापद्यते 5 स्म । सप्तोत्सदः खलु पुनः स तेजोधिपतिराजकुमारोऽभूत् । तस्य द्वयोः पादयोवुत्सदौ जातावभूतां वृत्तौ सुजातौ सुपरिपूर्णावदृश्यसंधी सुरचिती दर्शनीयौ, द्वौ हस्तयोवंसकूटयोः पृष्ठतो ग्रीवायामेकः । कोशगतवस्तिगुह्यता चास्य महापुरुषलक्षणमभिनिर्वृत्तमभूत् । सुगुप्तमस्य कोशबस्तिगुह्यमभून्निमग्नं संछादितम् , तद्यथा हस्त्याजानेयस्य वा अश्वाजाने
यस्य वा । नास्य कश्चित्त्री वा पुरुषो वा दारको वा दारिका वा वृद्धो वा मध्यो वा 10 दहरो वा गुरुर्वा गुरुस्थानीयो वा निर्वसनस्याप्यपश्यदन्यत्र स्वपरिभोगेन नैमित्तिकेन वा
कामोपचितेन । सिंहपूर्वार्धकायः खलु पुनः स तेजोधिपतिराजकुमारोऽभूत् । अनुपूर्वोद्गतशरीर उपविस्तीर्णवृतोरस्कोऽभिजातमृगराजातिरेकसुसंस्थितसमुच्छ्रयः । चितान्तरांसः खलु पुनरभवत् सूपचितशरीरः सुविभक्तसमुच्छ्रयः सर्वकायसमभागप्रतिष्ठितः अनूनगात्रः
अनुन्नतगात्रोऽपरिणतगात्रो मणिफलकविसृष्टातिरेकडुतिगात्रः । संवृत्तस्कन्धः खलु पुन15 रभवत् । वृत्तावस्य स्कन्धावभूतां पीनौ शुभौ सुपरिपुष्टौ । प्रलम्बबाहुतामहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभवत् । सोऽनवनमनेनोभाभ्यां पाणिभ्यां जानुमण्डले परिमार्जति, परामृशति समभागस्थितेन शरीरेण । बृहजुगात्रमहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभवत् सर्वावरोपेतपरमाणुसमगात्रः प्रशमगात्रो गुरुगात्रः प्रसन्नगात्रः प्रह्लादगात्रः।
कम्बुग्रीवतामहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभवत् अदीनकण्ठश्च । तस्य यावत्यो 840120 ग्रीवासामन्तकेन मुखसामन्तकेन च रसहरण्यः, ताः सर्वाः समा अभूवन् समन्ताः सुपरिपूर्णाः।
सिंहहनुतामहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभवत्, सुनिष्पीडितहनुः सुपरिपूर्णमुखमण्डलः सुजातपरिशुद्धमुखमण्डलः खायतमुखद्वारोऽपविवरः । समचत्वारिंशद्दन्ततामहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभूत् अनूनदशनः। तस्य किंचिद्भक्तपरिभोगेषु एक
वारमपि मुखभक्तं परिवर्तमानमसंभिन्नमभ्यवहारमगमत् अन्तश एकोदनबिन्दुरपि । 25 अविरलाविषमदन्ततामहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभवत् । अविरला अविषमा
अस्य दन्ता अभूवन् अच्छिद्रसंधयः समाः सुविभक्ताः, यैरस्याहारं परिमुखानस्य नाभूत्सङ्गो वा परिसङ्गोपरुद्वङ्गो(?) वा उपक्लेदो वा अभिष्यन्दो वा पर्यवनाहो वा अतिसर्जनं वा । समदन्ततामहापुरुषलक्षणप्रतिलब्धः खलु पुनरभवत् समदन्तो
नोनदन्तो नाधिकदन्तो नोन्नतदन्तो न संनतदन्तो न संभिन्नदन्तः समन्तमध्यदन्तोऽनु30 सन्नदन्तो अविनिर्भिन्नदन्तः । सुशुक्लदंष्ट्रश्च कुमारोऽभूत् निरुपक्लेशदष्टः सुप्रसन्नदंष्ट्रः सुपरिशुद्धदंष्ट्रः सुसंस्थितविचित्रदंष्ट्रः । सुप्रभूतजिह्वतामहापुरुषलक्षणप्रतिलब्धः खलु पुन
१Bom. सुजातपरिशुद्धमुखमण्डलः. २ B परिष्वङ्गो.