________________
-४३.२२]
४३ गोपा। अथ खलु सुधनः श्रेष्ठिदारको गोपां शाक्यकन्यामेतदवोचत्-कियच्चिरप्रति- B 159 लब्धस्त्वयायमार्ये बोधिसत्त्वसमाधिनयसागरव्यवलोकनविपयो बोधिसत्त्वविमोक्षः ? आहभूतपूर्व कुलपुत्र अतीतेऽध्वनि वुद्धक्षेत्रशतपरनाणुरजःसमानां कल्पानां परेण अभयंकरा नाम लोकधातुरभूत् । तस्यां खलु लोकधातो गतिप्रवरो नाम कल्पोऽभूत् । तस्याः खलु पुनर्लोकधातोर्मध्ये क्षेमावती नाम चातुर्दीपिका अभूत् । तस्यां खलु चातुर्दीपिकायां मध्ये 5 जम्बुद्वीपस्य द्रुममेरुश्री म राजधान्यभूच्चतुरशीतनेगरकोटीसहस्राणां प्रनुखा । सा खल्लु पुनममेरुश्री राजधानी। तानि चतुरशीतिनगरकोटीसहन्नाणि प्रत्येकं नीलवैडूर्यभूमिभागसंस्थापितानि सप्तरत्नमयप्राकारपरिक्षिप्तानि विचित्रवर्णप्रभाजालशुभगन्धशकटचक्रप्रमाणोत्पलपद्म- 8 399 कुमुदपुण्डरीकसंछलकनकवालिकासंस्तृततलगन्धोदकपरिपूर्णसप्तपरिखापरिक्षितानि रत्नमयसप्तवेदिकाजालसप्ततालपतिपरिवृतानि सतरत्नमयवृक्षमालापरिक्षिप्तानि उपरि मेघजालसंछादि- 10 तानि रत्नाटापदसुविभक्तविचित्ररत्नभक्तिविराजितभूमिभागानि सिद्धगणविचरितानि अभिजातपक्षिसंघमनोज्ञरुतरवितनि?षनिकूजितानि उद्यानकोटीशतसहस्रोपशोभितानि ऋद्धिस्फीतानि प्रमुदितनरनारीगणशतसहस्राकीर्णानि शुभाभिलपणीयमारुतेरितानुपरतपुष्पवृष्टिसहस्राभिप्रवृष्टानि पार्थिवेन्द्रशतसहस्राध्युपितानि । तेषां खलु पुनमहानगराणां सर्वरत्नवृक्षहेमजालालंकारादिभ्यो वातसंघट्टितेभ्यो बहुतूर्यनिर्धोपसमरुतनिश्चरितेभ्योऽयमेवंरूप 15 आनन्दशब्दो निश्चरति स्म-स्नात, पिवत, खादत, धर्म चरत, बोधिचित्तमुत्पादयत, अविनिवर्तनीयभूमिवशितामधिगच्छत । भद्रमस्तु वः । इति ॥
तस्यां खलु द्रुममेरुश्रियां राजधान्यां धनपति न राजा अभूत् मण्डलिकः । तस्य चतुरशीतिस्त्रीसहस्राण्यन्तःपुरमभूत् । पञ्च च अमात्यशतान्यभूवन् । राज्ञः खल पुनधनपतेः पञ्च पुत्रशतान्यभूवन् सर्वेषां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानां 20 प्रासादिकानां दर्शनीयानां परमशुभवर्णपुष्कलतया समन्वागतानाम् । राज्ञः खलु पुनर्धनपतेः पद्मश्रीगर्भसंभवा नाम अग्रमहिषी अभूत् तेषां चतुरशीतेः स्त्रीसहस्राणां प्रमुखा। तस्यां तेजोधिपतिर्नाम पुत्रोऽभूदभिरूपः प्रासादिको दर्शनीयः द्वात्रिंशन्महापुरुपलक्षणसमलंकृतकायः । तस्मानि द्वात्रिंशन्महापुरुषलक्षणान्यभूवन् । यदुत-सुप्रतिष्ठितपाणिपादः तेजोधिपतिराजकुमारोऽभूत् । समं महापृथिव्यां पादतलावुत्क्षिपति, समं निक्षिपति, निक्षिपंश्च 25 सर्वावत्पादतलाभ्यां समं महापृथिवीं संस्पृशति । पादतलयोश्चास्य चक्राणि जातानि सहस्राराणि सनाभीनि सनेमिकानि सर्वाकारपरिपूर्णानि सुरुचिराणि दर्शनीयानि । उच्छङ्खपादता चास्य अभिनिवृत्ताभूत् , सुव्यक्तपरमोपशोभिता उपरि पादच्छविकुसुमगर्भातिरेकप्रभाखरा । उभे चास्य हस्तपादतले जालिनी अभूतां विचित्रसुविभक्ताच्छिद्रापरिस्राविणी, तद्यथा धृतराष्ट्रस्य हंसराजस्य । आयतपादपाणिता अस्याभिनिर्वृत्ता- 30 5 400 भूत्परिशुद्धा प्रभाखरा सर्वरत्नवर्णावभासप्रमुक्ता । दीर्घा अस्याङ्गुलयोऽभूवन् वृत्ताः समायतसंधयः । स ताः समं पृथिव्यां प्रतिष्ठापयामास, समुद्धरति स्म । मृदूनि चास्य