________________
S 398
गण्डव्यूहसुत्रम् ।
[४३.२२
1
1
देशनासंप्रतीच्छननयानप्यवतरामि । पूर्ववोधिसत्त्वसमाधिप्रतिलाभनयानप्यवतरामि । परिप्कारवशिताप्रतिलाभनयानप्यवतरामि । पूर्वतथागतगुणसमुद्रप्रतिपत्तिनयानप्यवतरामि । दानपारमितानयसमुद्रानप्यवतरामि । वोधिसत्त्वशीलत्रतमण्डलपरिशुद्ध्यभिनिर्हरणनयानप्यव - तरामि । बोधिसत्त्वक्षान्तिप्रतिलाभनयानप्यवतरामि । बोधिसत्त्ववीर्यवेगसमुद्रानप्यवतरामि । 6 सर्वघ्यानाङ्गपरिनिष्पत्तिनयसागरानप्यवतरामि । प्रज्ञामण्डल परिशुद्धिनय समुद्रानप्यवतरामि । सर्वलोकोपपत्तिकायप्रतिभाससंदर्शनोपायनयानप्यवत रामि । समन्तभद्रचर्याप्रणिधानमण्डलपरिशुद्धिनयानप्यवतरामि । सर्वक्षेत्र सागरस्फरणतामप्यवतरामि । सर्वक्षेत्र परिशुद्धिनयसमुद्रानप्यवतरामि । सर्वतथागतज्ञानावभाससमुद्रानप्यवतरामि । सर्वबुद्धवोध्याक्रमणविकुर्वितसागरानप्यवतरामि । सर्वतथागतज्ञानावभासप्रतिलाभनयानप्यवतरामि । सर्वज्ञताधिगमाव10 तारनयसमुद्रानप्यवतरामि । अभिसंबोधिविकुर्वित समुद्रानप्यवतरामि । धर्मचक्रप्रवर्तनवृषभिताविक्रीडितनयसमुद्रानप्यवतरामि । नानापर्पन्मण्डलसमुद्रानप्यवतरामि । तेषु च सर्वपर्षन्मण्डलेषु सर्वबोधिसत्त्वानां पूर्वकुशलसमुद्रानप्यवतरामि । प्रथमप्रणिधाननयसमुद्रानप्यवतरामि । सत्त्वपरिपाकविनयोपायनयसमुद्रानप्यवतरामि । ये च भगवता पूर्वं बोधिसत्त्वचर्यां चरता सत्त्वसमुद्राः परिपाचितास्तानप्यवतरामि । तेषां च बोधिसत्त्वानां प्रति15 चित्तक्षणं कुशलमूलविवर्धनोपायनयसमुद्रानप्यवतरामि । समाधिप्रतिलाभनयसमुद्रानप्यवतरामि । धारणीमुखसमुद्रप्रतिलाभनयसागरानप्यवतरामि । प्रतिभानज्ञानमण्डलविशुद्धिनयसमुद्रानप्यवतरामि । सर्वबोधिसत्त्वभूग्याक्रमण विकुर्वितनयसमुद्रानप्यवतरामि । चर्याजालाभिनिर्हारनयसमुद्रानप्यवतरामि । अनुपूर्वसमुद्रानप्यवतरामि । अनुपूर्वसमुदागमदिक्प्रवेशज्ञाननयसमुद्रानप्यवतरामि । तेषां च सर्वेन्द्रियबलबोध्यङ्गध्यानविमोक्षसमाधिसमापत्तिविकुर्वित20 समुद्रानप्यवतरामि ॥
३०८
यथा च भगवतो वैरोचनस्य सर्वस्मिन् धर्मधातौ बोधिसत्त्वचरितसमुद्रानप्यवतरामि प्रजानामि अभिनिर्हरामि, एवं सर्वतथागतानां दशसु दिक्षु धर्मधातुपरमेष्वाकाशधातुपर्यवसानेषु सर्वलोकधातुसमुद्रेष्वसंभिन्नसर्वबोधिसत्त्वचरितसमुद्रानप्यवतरामि प्रजानामि अभिनिर्हरामि । एवं सर्वतथागतानां दशसु दिक्षु धर्मधातुपरमेष्वाकाशधातुपर्यवसानेषु 25 सर्वलोकधातुसमुद्रेष्वसंभिन्नसर्वबोधिसत्त्वचरितप्रवेशमनन्तमायाजालप्रवेशमनन्तधर्मधातु
स्फरणमनन्तमुखनिर्देशमपर्यन्तकल्पाधिष्ठानप्रवेशनिर्देशमवतरामि प्रजानामि अभिनिर्हरामि । तत्कस्य हेतोः ? एष हि कुलपुत्र अस्य सर्वबोधिसत्त्वसमाधिनयसागरव्यवलोकन विषयस्य बोधिसत्त्वविमोक्षस्य विषयः, यदेतं समापन्ना सर्वसत्त्वचित्तचरितनयान् प्रजानामि । सर्वसत्त्वकुशलसंचयान् प्रजानामि । सर्वसत्त्वसंक्लेशव्यवदाननयान् प्रजानामि । सर्वसत्त्व30 कर्मनानात्वं प्रजानामि । सर्वश्रावकसमाधिद्वाराणि प्रजानामि । सर्वश्रावकसमाधिभूमि प्रजानामि । सर्वप्रत्येकबुद्धशान्तविमोक्षविकुर्वितमवतरामि । सर्वबोधिसत्त्व समाधिसमुद्रनयान् प्रजानामि । सर्वबोधिसत्त्वविमोक्षनयसागरावतारं प्रजानामि । सर्वतथागत विमोक्षनयसागरावतारमपि प्रजानामि ॥