________________
-४३.२२] ४३ गोपा।
३०७ विकुर्वितान्यपि प्रजानामि । बोधिसत्त्वसमाधिसागरानपि प्रजानामि । बोधिसत्त्वविमोक्षनयसमुद्रानपि प्रजानामि । तेषां च बोधिसत्त्वानां प्रतिचित्तक्षणं नानासमाधिसमुद्रप्रतिलाभानपि प्रजानामि । सर्वज्ञतावभासनप्रतिलाभानपि प्रजानामि । सर्वज्ञताविद्युदालोकमेघानपि प्रजानामि । बोधिसत्त्वक्षान्तिप्रतिलाभनयानपि प्रजानामि । सर्वज्ञतावगाहनविक्रमानपि प्रजानामि । तेषां वोधिसत्त्वानां क्षेत्रसमुद्रानुगमानपि प्रजानामि । धर्मसमुद्नयाक्तारानपि । प्रजानामि । सर्वसमुद्रलक्षणनानात्वमपि प्रजानामि । सर्वबोधिसत्त्वविहारनयविकुर्वितान्यपि प्रजानामि । नानाप्रणिधाननयसमुद्रानपि प्रजानामि । विविधविकुर्वितसमुद्रविमात्रतामपि प्रजानामि ॥
यथा च अहं कुलपुत्र अस्यां लोकधातौ अतीतवर्तमानान् कल्पसमुद्रान् नानाविधानवतरामि, एवमपरान्तपरंपराव्यवच्छिन्नाननागतान् कल्पसमुद्रान् प्रजानामि । यथा च 105 398 सहायां लोकधातौं प्रजानामि, तथा सहालोकधातुसमवसरणासु सर्वलोकधातुपरंपरामु प्रजानामि । यथा च सहालोकधातुसमवसरणासु सर्वलोकधातुपरंपरासु प्रजानामि, एवं सहालोकधातुपरमाणुरजोन्तर्गतास्वपि सर्वलोकधातुपरंपरासु प्रजानामि । यथा च सहालोकधातुपरमाणुरजोन्तर्गतासु सर्वलोकधातुपरंपरासु प्रजानामि, एवं सहालोकधातुदशदिगानन्तर्यस्थिताखपि लोकधातुषु प्रजानामि । यथा च सहालोकधातुदशदिगानन्तर्यस्थितासु 15 सर्वलोकधातुषु प्रजानामि, एवं सहालोकधातुदशदिगानन्तर्यपरंपरास्थितास्वपि सर्वलोकधातुषु प्रजानामि । यथा च सहालोकधातुदशदिगानन्तर्यपरंपरास्थितासु सर्वलोकधातुषु प्रजानामि, एवं समन्तदिक्प्रभासवैरोचनलोकधातुवंशपर्यापन्नास्वपि सर्वलोकधातुषु प्रजानामि । यथा समन्तदिक्प्रभासवैरोचनलोकधातुवंशपर्यापन्नास्वपि लोकधातुषु प्रजानामि, एवं समन्तदिक्प्रभासवैरोचनलोकधातुवंशदिगानन्तर्यपरंपरास्थितासु सर्वलोकधातुषु प्रजानामि | 20 यथा चास्य समन्तदिक्प्रभासवैरोचनस्य लोकधातुवंशस्य दशदिगानन्तर्यपरंपरावस्थितासु सर्वलोकधातुषु प्रजानामि, एवमिह सर्वावति कुसुमतलगर्भव्यूहालंकारेषु लोकधातुसुमेरुषु लोकधातुसमुद्रान्तर्गतेषु लोकधातुप्रसरेषु प्रजानामि । एवं लोकधातुनयेषु लोकधातुचक्रेषु लोकधातुमण्डलेषु लोकधातुविभागेषु लोकधातुनदीषु लोकधात्वावर्तेषु लोकधातुपरिवर्तेषु लोकधातुसुमेरुषु लोकधातुसमुद्गतेषु लोकधातुपोषु लोकधातुवृक्षेषु 25 लोकधातुखारकेषु लोकधातुसंज्ञागतेष्वपि प्रजानामि ॥
यथा च अस्मिन् कुसुमतलगर्भव्यूहालंकारे लोकधातुसमुद्रे प्रजानामि, एवं दशसु दिक्षु अनन्तपर्यन्तेषु धर्मधातुपरमेषु आकाशधातुपर्यवसानेषु सर्वलोकधातुसमुद्रेषु वैरोचनस्य पूर्वप्रणिधानसागरान् प्रजानामि अवतरामि अनुस्मरामि । पूर्वयोगसमुद्रानप्यवतरामि । पूर्वसमुद्रागमनसागरानप्यवतरामि । अनन्तमध्यकल्पबोधिसत्त्वचर्यासंवासमप्यवतरामि । क्षेत्र- 30 परिशुद्धिनयानप्यवतरामि । सत्त्वपरिपाकोपायनयानप्यवतरामि । पूर्वतथागतारागणोपसंक्रमणविकुर्वितानप्यवतरामि । पूर्वतथागतपूजोपस्थानप्रयोगनयानप्यवतरामि । पूर्वतथागतधर्म
B 158
8397