________________
IAS 394
S 395
गण्डव्यूहसूत्रम् ।
[४३.२२
अकुशलमूलपरिगृहीतमपि कुशलाकुशलपरिगृहीतमपि समुदानीत कुशलमूलमपि असमुदानीतपापधर्ममपि एषां कर्मसमादानं प्रजानामि ॥
३०६
1
1
तेषु च अनभिलाप्यबुद्धक्षेत्रपरमाणुरजः समेषु कल्पेषु ये बुद्धा भगवन्त उत्पन्नाः, तेपां नामसमुद्रानवतरामि । तेषां च बुद्धानां भगवतां प्रथमचित्तोत्पाद समुद्रानपि प्रजानामि । ऽ सर्वज्ञताप्रस्थाननयसमुद्रानपि प्रजानामि । सर्वप्रणिधिसागराभिनिर्धारानपि प्रजानामि । पूर्वबुद्धोत्पादप्रस्थानसमुद्रानपि प्रजानामि । पूर्वबुद्धपूजोपस्थानप्रयोगसमुद्रानपि प्रजानामि । पूर्वबोधिसत्त्वचर्यापरिपूरिसमुद्रानपि प्रजानामि । निर्याणव्यूहसमुद्रानपि प्रजानामि । तेषां च बुद्धानां भगवतां सत्त्वपरिपाकविनयसमुद्रानपि प्रजानामि । अभिसंबोधिसमुद्रानपि प्रजानामि । धर्मचक्रप्रवर्तनवृषभिताविकुर्वितान्यपि प्रजानामि । सर्वबुद्धविकुर्वितसमुद्रानपि 10 प्रजानामि । तेषां च बुद्धानां भगवतां पर्षन्मण्डलविभक्तीरपि प्रजानामि । तेषु च पर्षन्मण्डलेषु ये श्रावकास्तेषां निर्याणनयमपि प्रजानामि । पूर्वकुशलमूलान्यपि प्रजानामि । मार्गभावनानानात्वमपि प्रजानामि । ज्ञानप्रतिलाभसंपद्विशुद्धप्रभेदमपि प्रजानामि । ये च तैस्तथागतैः सत्त्वाः प्रत्येकवोधौ प्रतिष्ठापितास्तानपि प्रजानामि । यानि च तेषां प्रत्येकबुद्धानां पूर्वकुशलमूलानि तान्यपि प्रजानामि । ये च तेषां प्रत्येकबुद्धानां प्रत्येकबोध्यधि15 गमास्तानपि प्रजानामि । यानि च तेषां प्रत्येकबुद्धानां शान्तविहारविकुर्वितविमोक्षमुखानि तान्यपि प्रजानामि । यानि च तेषां प्रत्येकबुद्धानां विविधविकुर्वितानि तान्यपि प्रजानामि । यश्च तेषां प्रत्येकबुद्धानां सत्त्वपरिपाकस्तमपि प्रजानामि । या च तेषां प्रत्येकबुद्धानां धर्मदेशना, तामपि प्रजानामि । यानि च तेषां प्रत्येकबुद्धानामनन्तसमाधिविहारविविधविमोक्षक्रीडितानि तान्यपि प्रजानामि । यच्च तेषां बुद्धानां भगवतां परिनिर्वाणं तदपि प्रजानामि । 20 ये च बुद्धानां भगवतां बोधिसत्त्वपर्षन्मण्डलसमुद्रास्तानपि प्रजानामि । तेषां च बोधिसत्त्वानां प्रथमकुशलमूलावरोपणान्यपि प्रजानामि । प्रथमचित्तोत्पादप्रणिधानान्यपि प्रजानामि । प्रणिधानविमात्रतामपि सर्वबोधिसत्त्वचर्यानिर्याणव्यूहाभिनिर्हारविमात्रतामपि प्रजानामि । पारमितामार्गाङ्गसंभारविशुद्धिविमात्रतामपि प्रजानामि । बोधिसत्त्वमार्गप्रतिपत्तिव्यूहविमात्रतामपि प्रजानामि । वोधिसत्त्वभूम्याक्रमणसंभारविमात्रतामपि प्रजानानि । 25 बोधिसत्त्वभूम्याक्रमणवेगविमात्रतामपि प्रजानामि । बोधिसत्त्वभूमिसंक्रमसमाधिमण्डलविमात्रतामपि प्रजानामि । बोधिसत्त्व भूम्याक्रमण विकुर्वितान्यपि प्रजानामि । बोधिसत्त्वभूम्याक्रमणविहारानपि प्रजानामि । बोधिसत्त्वभूमिप्रतिष्ठानान्यपि प्रजानामि । बोधिसत्त्वभूमिभावनाविचारानपि प्रजानामि । बोधिसत्त्वभूमिपरिशोधननयानपि प्रजानामि । बोधिसत्त्वभूमिसंवासानपि प्रजानामि । बोधिसत्त्वभूमिनिमित्तान्यपि प्रजानामि । बोधि30 सत्त्वभूमिवशितामपि प्रजानामि । बोधिसत्त्वभूम्याक्रमणज्ञानमपि प्रजानामि । बोधिसत्त्वसंग्रहज्ञानमपि प्रजानामि । बोधिसत्त्वपरिपाकज्ञानमपि प्रजानामि । बोधिसत्त्वव्यवस्थानसंवासमपि प्रजानामि । बोधिसत्त्ववर्यामण्डल विस्तारानपि प्रजानामि । बोधिसत्त्ववर्या
।