________________
8405
-४३.१]
४३ गोपा। विनीता । सा मात्रा सार्धमनेककन्यापरिवृता रत्नरथाभिलढा द्रुममेरुश्रियो राजधान्या निष्कम्य तेजोधिपते राजकुमारस्य पुरतः तेजोधिपतिं राजकुमारं परिमार्गयमाणा राजाज्ञानियोगाद्गच्छन्ती तेजोधिपतिं राजकुमारं दृष्ट्वा तीनं रागचित्तमुत्पादयामास । सा तेजोधिपते राजकुमारस्यान्तिकेऽधिमात्रं संजातस्नेहानुवद्धा अखतन्त्रचित्ता मातरं सुदर्शनामेतदवोचत्यत्खलु अम्ब जानीयाः-सचेन्मां तेजोधिपते राजकुमारस्य न दास्यसि, मरणं वोपगमिष्यामि । मरणमात्रकं वा दुःखम् । सा ग्राह-मैवं दारिक चेतनामुत्पादय । एप हि कुमारश्चक्रवर्तिलक्षणसमन्वागतः । स्थानमेतद्विद्यते-यदेष पितुर्धनपतेरत्ययाच्चक्रवर्तिराज्यमध्यावसिष्यति । स राजा भविष्यति चक्रवर्ती । ततोऽस्य स्त्रीरत्नं प्रादुर्भविष्यति वैहायसंगमम् । अपि तु खलु पुनारिक गणिका वयं सर्वलोकरतिकराः । न वयमेकसत्त्वं प्रतिनियमेन यावज्जीवमुपतिष्ठामहे । वयं हि राज्ञो धनपतेराज्ञया तेजोधिपतेः कुमारस्योपस्थानाय निर्याताः । 10 मैनां चेतनां दृढीकुरुष्व । दुर्लभमेतत्स्थानम् ॥
तेन चेह समयेन सूर्यगात्रप्रवरो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां वुद्धो भगवान् । तस्य खलु पुनर्गन्धाङ्कुरशिखरप्रभमेघस्योद्यानस्यानन्तरे धर्ममेघोद्गतप्रभासो नाम बोधिमण्डोऽभूत्। तत्र स भगवान् सूर्यगात्रप्रवरस्तथागतः प्रथमसप्ताहाभिसंबुद्धो व्याहार्षीत् । 15 स तया दारिकया रथाभिरूढयैव प्रचलायमानया स्वप्नान्तरे दृष्टः । प्रतिविबुद्धायाश्च पुराणज्ञातिसालोहितया देवतया आरोचितम्-एष दारिक सूर्यगात्रप्रवरस्तथागतो धर्ममेघोद्गतप्रभासे बोधिमण्डे विहरति प्रथमसप्ताहाभिसंबुद्धो बोधिसत्त्वगणपरिवृतो देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगदेवेन्द्रब्रह्माभास्वराकनिष्ठदेवगणपुरस्कृतः । तत्रैव च सर्वाः पृथ्वीदेवताः संनिपतिताः। आकाशदेवता अब्देवता ज्वलनदेवता वायुदेवताः सागरदेवता 20 नदीदेवताः पर्वतदेवता रात्रिदेवता अरुणोद्गतदेवता वनदेवता वृक्षदेवता औषधिदेवताः सस्यदेवता नगरदेवताः पदगामिनीदेवता बोधिमण्डदेवताः शरीररश्मिदेवताः सत्त्वनिकायदेवता गगनदेवता सर्वदिग्देवताश्च संनिपतिताः तस्य भगवतः सूर्यगात्रप्रवरस्य तथागतस्य दर्शनायेति ॥
सा तेन तथागतदर्शनेन तथागतगुणश्रवणेन च विशारदा भूत्वा अवकाशप्रति- 25 लब्धा तेजोधिपते राजकुमारस्य पुरतस्तस्यां वेलायामिमा गाथा अभाषत
रूपवरेणड लोकि विशिष्टा
विश्रुत सर्वदिशासु गुणेभिः। प्रज्ञबलेन न मे सदृशास्ति
सर्वकलारतिमायविधिज्ञा ॥१॥
30
-
१ B om. व्याहाषांत्...संबुद्धो.
गण्ड.४०