________________
३१४
गण्डव्यूहसूत्रम्।
[४३.२
B162
84065
प्राणशता बहु नैकसहस्रा
ये मम प्रेक्षिषु रागवशेन । नापि च रज्यति मह्य कुमारा
कस्यचिदन्तिकि मानसु लोके ॥२॥ नो च मम प्रतिहन्यति चित्तं
नाप्यनुनीयति कुत्रचि सत्त्वे । नापि च मे कचि वैरु न दोषः
सर्वहितेऽभिरतं मम चित्तम् ॥ ३ ॥ यद मि त्वमपि दृष्ट कुमारो __ रूपबलप्रवरो गुणधारी। तद इन्द्रिय प्रीणित सर्वे
प्रीत ममो विपुला उपजाता ॥ ४ ॥ शुद्धविरोचनरत्नसुवर्णा
केशभिनील सुवल्लित तुभ्यम् । सुभ्रललाट सुनासा एष
निवेदयमी तव आत्मा ॥५॥ वरलक्षणधारि सुतेजा
काञ्चनपर्वतसंनिभरूपः। पुरतो न विराजमि तुभ्यं
श्यामकृता मषिविग्रहतुल्या ॥६॥ खभिनीलमहायतनेत्रा
सिंहहन्यो (?) परिपूर्ण सुवक्त्रः । न च ते प्रतिहन्यति वाच्यं
अग्ररुत प्रतिगृह्णमि मह्यम् ॥ ७ ॥ वदने तव जिह्व प्रभूता
ताम्रतनू विपुला रतनाभा । वरब्रह्मखराङ्गसुघोषा
तोषयसे जगदाळपमानः ॥ ८॥ . वदने सहितास्तव दन्ता
शङ्खनिभा विमला सुविभक्ता ।
-30
राज्य मह्य कुमारा. २
जगदारधमानः.