________________
-४३.१५]
४३ गोपा। स्मितु येहि विदर्शयमानः
तोषयसे जनता नरवीर ॥ ९॥ तव लक्षणशोभन काय
स्त्रिंश दुवेव प्रभासुर शुद्धः। समलंकृतु येहि सुरूपः
चक्रधरो भवितासि नरेन्द्रा ॥ १० ॥ अथ खलु तेजोधिपती राजपुत्रः सुचलितरतिप्रभासश्रियं दारिकामेतदवोचत्-कस्य त्वं दारिक, को वा तवारक्षकः ? न मम दारिके कल्पते परपरिगृहीतेषु दारेषु ममतां कर्तुम् । तस्यां वेलायामिमा गाथा अभाषत
सुदर्शने रूपगुणैरुपेते
सुलक्षणे पुण्यविशुद्धकाये। पृच्छामि ते ब्रूहि ममैतमर्थ
परिग्रहस्त्वं वरगात्रि कस्य ॥ ११॥ माता पिता वा तव कच्चिदस्ति
भर्तापि वा खामि परिग्रहो वा । सत्त्वोऽपि चान्यः खलु येन संज्ञा
कृता ममेति त्वयि सौम्यरूपे ॥ १२ ॥ कच्चिन्न हिंसाभिरतं मनस्ते
हरस्यदत्तं खलु मा परेषाम् । मा काममिथ्याचरणे रतिस्ते
मा वा मृषाद्य प्रसृतं मनस्ते ॥ १३ ॥ मा मित्रभेदप्रसृता मतिस्ते ___ मा मर्मभेदीनि वचांसि वक्षि । मा तेऽपरक्षेषु धनेष्वभिध्या ___ व्यापादचित्तं जनतासु चापि ॥ १४ ॥ मा दृष्टिकान्तारपथि स्थितासि ___ मा कर्मवंशोधुरचेतना वा। मायाविनी शाठ्यवशानुगा वा
मा बाधसे त्वं विषमेण लोकम् ॥ १५ ॥ मातापिताज्ञातिसुद्गुरूणां
कच्चिनियत्वं तव गौरवं वा ।
S407
9 B om, this line.