SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ३१६ गण्डव्यूहसूत्रम् । [४३.१६दरिद्रभूतेषु च संग्रहाय कञ्चित्प्रदातुं प्रसृतं मनस्ते ॥ १६ ॥ प्रेमास्ति कल्याणसुहृत्स्वथो वा धर्मेण काले च वदन्ति ये त्वाम् । कायस्य चित्तस्य च कल्यतां ते कर्मण्यतां वा जनयन्ति सम्यक् ॥ १७ ॥ बुद्धेषु ते गौरवमस्ति कच्चित् प्रेमापि वा बुद्धसुतेषु तीव्रम् । कच्चित्प्रजानासि तमनधर्म ___ यतः प्रसूतिः सुगतात्मजानाम् ॥ १८ ॥ कच्चित्परे तिष्ठसि धर्मवंशे न चाप्यधर्मं चरितुं मतिस्ते । अनन्तवर्णे च गुणार्णवे ते कच्चित्परं प्रेम च गौरवं च ॥ १९॥ अनाथभूतेषु जनेषु कच्चित् ___मैत्रं मनस्तेऽपरिणायकेषु । आपायिके कर्मणि च प्रवृत्ता कच्चिदृशाता करुणायसे त्वम् ॥ २० ॥ परेषु संपत्तिमुदीक्ष्य चानां __ कच्चित्परां तुष्टिमुपैषि च त्वम् । क्लेशास्वतन्त्रेषु जनेषु कच्चित् प्रज्ञाबलात्संजनयस्युपेक्षाम् ॥ २१ ॥ अज्ञानसुप्तां जनतामुदीक्ष्य कच्चिदृढां प्रार्थयसेऽप्रबोधिम् । कल्पाननन्तान् चरमाण चाँ कच्चिन्न ते प्रार्थनयास्ति खेदः ॥ २२ ॥ अथ खलु सुदर्शना अग्रगणिका सुचलितरतिप्रभासश्रियो दारिकाया माता तेजोधिपति राजकुमारमेतदवोचत्-ममैषा कुमार दारिका उपपादुका पद्मगर्भसंभूता नाभिनिष्क्रान्तपूर्वा गृहात् । तस्यां च वेलायामिमा गाथा अभाषत मां भाषमाणां शृणु राजपुत्र यहारिका ते परिपृच्छतेयम् । वक्ष्येऽनुपूर्व्या तव दारिकेयं जाता यथा सौम्य विवर्धिता च ॥ २३ ॥ 25
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy