SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ 58408 ४३ गोपा। निशाक्षये यत्र भवान् प्रसूतः तत्रैव जाता मम दारिकेयम् । उपपादुका निर्मलपद्मगर्भे । ___ सर्वाङ्गपूर्णा सुविशालनेत्रा ॥ २४ ॥ वसन्तकाले प्रवरे ऋतूनां संभूतसस्योषधिसंप्ररोहे । सालप्रभोद्यानवरे मदीये चिरं मया तत्र विनिर्गताहम् ॥ २५॥ प्रमुक्तशाखाप्रविचित्रकोशे प्रफुल्लवृक्षे घनमेघवर्णे । नानाद्विजोन्नादितवृक्षषण्डे वने विशोका मुदिता रमामि ॥ २६ ॥ कन्याशतैरष्टभिरन्विताहं विभूषिताभिः सुमनोहराभिः । विचित्ररत्नाम्बरधारिणीभिः गीते च वाद्ये च सुशिक्षिताभिः ॥ २७ ॥ विचित्रगन्धध्वजपुण्डरीके वापीतटेऽभूवमहं निषण्णा । पुष्पाभिकीर्णे धरणीप्रदेशे ___ सुशिक्षितस्त्रीगणसंप्रपूर्णे ॥ २८ ॥ तत्राम्बुमध्येऽथ सहस्रपत्रं प्रादुर्बभूवोत्तमरत्नपद्मम् । वैडूर्यदण्डं मणिराजपत्रं विशुद्धजाम्बूनदकर्णिकं च ॥ २९ ॥ सुगन्धरत्तोत्तमकेसराढ्यं जम्बुध्वजोद्भूतमहावभासम् । आसंस्तदा संशयिता जनौघा . रात्र्यां किमभ्युद्गत एष सूर्यः ।। ३० ॥ महारवीन्द्राद्रजनीक्षयेऽस्मात् प्रबोध्यमानात्सवितुः प्रभाभिः । मुक्तोऽवभासो मधुरश्च शब्द स्तजन्मनः पूर्वनिमित्तमस्याः ॥ ३१ ॥ 30
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy