SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ [४३.३२ गण्डव्यूहसूत्रम् । स्त्रीरत्नमेतद्धि मनुष्यलोके प्रादुर्बभूवोत्तमशीलशुद्ध्या । न कर्मणो ह्यस्ति कृतस्य नाशः पूर्वे सुचीर्णस्य विपाक एषः ॥ ३२ ॥ सुनीलकेश्युत्पलनीलनेत्रा ___ ब्रह्मखरा काञ्चनशुद्धवर्णा । आमुक्तमालाभरणा सुवेशा पद्मोद्भवा श्रीरिव निर्मलाभा ॥ ३३ ॥ विशुद्धगात्री समभागकाया संपूर्णगात्रा सुविभक्तदेहा । सुवर्णबिम्बं मणिनेव मृष्टं विरोचते सर्वदिशोऽवभास्य ॥ ३४ ॥ गोत्रोद्भवश्चन्दनराजगन्धः प्रवाति चास्याभिदिशः स्फरित्वा । रुतं च दिव्यं मधुरं रुवल्या गन्धो मुखाद्वाति यथोत्पलस्य ॥ ३५॥ स्मितं यदैषा प्रकरोति चैव दिव्यं तदा तूर्यरवं विरौति । स्त्रीरत्नमेतत्खलु जातु लोके न प्राकृतानां वशमभ्युपैति ॥ ३६ ॥ मनुष्यलोके न हि विद्यतेऽसौ भर्ता हि योऽस्यास्त्वदृते परः स्यात् । सल्लक्षणैश्चित्रितचारुरूपः कन्यां प्रतीच्छख यतस्त्वमेताम् ॥ ३७ ॥ हखा न चेयं हि न चातिदीर्घा स्थूला न चैषा न कृशातिमात्रम् । चापोदरी पीनपयोधरा च तवानुरूपेयमनिन्दिताङ्ग ॥ ३८ ॥ संख्यालिपिज्ञाननये तथैव मुद्राविधौ शास्त्रनयेष्वभिज्ञा । 25 8409 B163 30 S शातिगात्रम्, :
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy