SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ४३ गोपा। शिल्पानि यावन्ति च सर्वलोके पारंगतेयं निखिलेषु तेषु ॥ ३९ ॥ इष्वस्त्रविज्ञान परं विधिज्ञा सत्त्वान युक्तौ सुविनिश्चिता च । आकर्षणे शत्रुमनःप्रसादे सर्वत्र पारं परमं गतेयम् ॥ ४० ॥ विशुद्धरत्नोत्तमसर्वगात्र मुक्तप्रभामण्डलराजितेयम् । खलंकृता पूर्वकृतैः स्वपुण्यै स्तवानुरूपा परिचारिकेयम् ॥ ४१ ॥ ये व्याधयः केचन जीवलोके तेषां समुत्थाननये विधिज्ञा । तेषामशेषप्रशमं च संप द्वैषज्यसम्यक्प्रविचारणे च ॥ ४२ ॥ जम्बुध्वजे येऽपि च सर्वमन्त्र निरुक्तिभेदा निखिला जनानाम् । सर्वत्र लोकव्यवहारसंधी चित्रे गतेयं परमां गतिं च ॥ ४३ ।। खराङ्गनिहारनयाश्च येऽपि तेषां प्रभेदेषु नये प्रविष्टा । गीतानि नृत्यानि च यानि लोके तेष्वप्यशेषेषु परं विधिज्ञा ॥ ४४ ॥ तूर्येषु वाद्येषु रतिप्रयोगे __ हास्ये च लास्ये च गतिं गतेयम् । रक्तेष्वरक्तेषु नरेष्वभिज्ञा नरानुनीता प्रतिघान्विता वा ॥ ४५ ॥ स्त्रीणां रुतानीह च यानि लोके विशेषतस्तान्यखिलान्यवैति । ये चाप्रमेया वनिताजनस्य दोषा न तेषां निखिलेन सन्ति ॥ ४६॥ निरीक्षिते चार्धनिरीक्षिते च अङ्गप्रदानेऽङ्गविदर्शने च । चाथ.
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy