________________
२६२
गण्डव्यूहसूत्रम् ।
[४०.७०संप्रस्थिता, या त्वमेवंरूपान् बोधिसत्त्वगुणानवतरसि । उदारसत्त्वाभिज्ञतया जम्बुद्वीपेऽमोघोऽस्माकं सत्त्वसंग्रहविक्रमो येषां नो विजिते त्वमेवंरूपज्ञानसमन्वागता उत्पन्ना । अथ खल्लु राजा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषोऽनधं महामणिरत्नं ज्योतिःप्रभमणिरत्नविचित्रं च अन, वस्त्ररत्नं खेन पाणिना आदाय रत्नप्रभायाः श्रेष्ठिदारिकायाः प्रादात् । तत्परिवारस्य च 5 सर्वासां दारिकाणां प्रत्येकं नानावस्त्ररत्नानि प्रादात् , एवं चावोचत्-प्रतिगृहाण दारिके त्वमिदं वस्त्ररत्नम् , परिगृह्यात्मना परिभुव । अथ खलु रत्नप्रभा श्रेष्ठिदारिका सपरिवारा उभाभ्यां जानुभ्यां धरणितले प्रणिपत्य तद्वस्त्ररत्नं पाणिभ्यां परिगृह्य मूर्तिं कृत्वा प्रत्यवसृत्य तद्वस्त्ररत्नं प्रावृतवती । तत्परिवाराश्च सर्वा दारिकाः प्रत्येकं खानि वस्त्ररत्नानि प्रावृतवत्यः ।
सा तद्वस्त्ररत्नं प्रावृत्य राजानं सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषं प्रदक्षिणमकरोत् साध खेन 10 दारिकापरिवारेण । तासां सर्वासां तेषु वस्त्ररत्नेषु सर्वनक्षत्रज्योतिर्बिम्बानि विद्योतमानान्यदर्शन् । तां जनकायो दृष्ट्वा एवमाह-शोभनस्तवायं दारिके कन्यापरिवारः । रात्रिदेवतेव ज्योतिर्गणप्रतिमण्डिता त्वमाभिः परिवृता अतीव भ्राजसे ॥
___ अथ खलु सर्ववृक्षप्रफुल्लनसुखसंवासा रात्रिदेवता सुधनं श्रेष्ठिदारकमेतदवोचत्-तल्कि मन्यसे कुलपुत्र-अन्यः स तेन कालेन तेन समयेन राजाभूत् सर्वधर्मनिर्नादच्छत्रमण्डल15 निर्घोषो नाम ? न खल्वेवं द्रष्टव्यम् । अयं स भगवान् वैरोचनस्तथागतोऽर्हन् सम्यक्सं
बुद्धस्तेन कालेन तेन समयेन राजा अभूत् सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषो नाम । स्यात्खल पुनस्ते कुलपुत्र-अन्या सा तेन कालेन तेन समयेन पद्मप्रभा नाम देव्यभूद्राज्ञो ज्योतिष्प्रभस्य भार्या सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य राज्ञो माता ? न खल्वेवं द्रष्टव्यम् । इयं सा मायादेवी तेन कालेन पमप्रभा नाम राजभार्या अभूत् , यया स उपपादुकः कुमारः 20 उत्सङ्गे प्रतिगृहीतः । स्यात्खलु पुनस्ते कुलपुत्र एवम्-अन्यः स तेन कालेन तेन समयेन
ज्योतिष्प्रभो नाम राजा अभूत्सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य राज्ञः पिता ? न खल्वेवं द्रष्टव्यम्। शुद्धोदनः स राजा तेन कालेन ज्योतिष्प्रभो नाम राजा अभूत् । स्यात्खलु पुनस्ते कुलपुत्र एवम्-अन्या सा तेन कालेन तेन समयेन रत्नप्रभा नाम श्रेष्ठिदारिका अभूत् । न
खल्वेवं द्रष्टव्यम् । अहं सा तेन कालेन तेन समयेन रत्नप्रभा नाम श्रेष्ठिदारिका अभूवम् । स्यात्खलु 28 पुनस्ते कुलपुत्र एवम् अन्ये तेन कालेन तेन समयेन सत्त्वा अभूवन् , ये तत्र जम्बुद्वीपे उपपन्नाः राज्ञा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषेण चतुर्भिः संग्रहवस्तुभिः संगृहीताः? न खल्वेवं द्रष्टव्यम् । इमे ते बोधिसत्त्वाः सर्वे इहैव भगवतः पर्षन्मण्डलसमवसृता येऽनुत्तरायां सम्यक्संबोधौ अवैवायां बोधिसत्त्वभूमौ प्रतिष्ठापिताः । केचित्प्रथमायां भूमौ, केचिद् द्वितीयायां केचित्तृतीयायां केचिञ्चतुर्था भूमौ केचित्पश्चम्यां केचित्षठ्या केचित्सप्तम्यां 30 केचिदष्टम्यां केचिन्नवम्यां केचिद्दशम्यां बोधिसत्त्वभूमौ प्रतिष्ठापिताः । ये नानाप्रणिधानविमात्रताभिर्नानासर्वज्ञताप्रस्थानैर्नानासंभारैर्नानासमुद्रागमैर्नानानिर्याणैर्नानामार्गव्यूहशुद्धिभि
8339
B 136
. १Bधर्मप्रभा. .