SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ -४०.७०] ४० सर्ववृक्षप्रफुल्लनसुखसंवासा | प्रभा शरीरात्तव निश्चरित्वा प्रभासयामास महीं समन्तात् । तमोन्धकारं जगतां च हत्वा व्याधीनशेषान् शमयांबभूव ।। ६५ ।। ये यक्षकुम्भाण्डपिशाचसंघा विहेठकास्ते च सदापजग्मुः । आशीविषा नाप्यचरंस्तदानी महाविषाः सत्त्ववधप्रवृत्ताः ॥ ६६ ॥ अलाभनिन्दे अयशोऽथ दुःखं या तो व्याधिरुपद्रवाश्च । शमं समासाद्य हितं जगाम लोके प्रमोदस्तु समुद्बभूव ॥ ६७ ॥ परस्परं मातृसमानसंज्ञी मैत्रात्मकं सर्वजगत्तदासीत् । अवैरचित्तं विनिहिंसकश्च सर्वज्ञमार्गप्रतिपत्तिमच्च ॥ ६८ ॥ विवर्तिता दुर्गति धर्मराज्ञा अपावृतः स्वर्गमहापथश्च । सर्वज्ञतावर्त्मनिदर्शनं च कृतस्त्वयार्थो जगतो विशालः ॥ ६९ ॥ लाभः परो नस्तव दर्शनेन दातुर्महाम्भोनिधिसंनिभस्य । अनाथनाथो जगति प्रसूतः चिरप्रनष्टेऽद्भुतनायकस्त्वम् ॥ ७० ॥ २६१ 5 10 15 20 अथ खलु रत्नप्रभा श्रेष्ठिदारिका सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषं राजानमाभि- 26 र्गाथाभिरभिष्टुत्य संवर्ण्य संप्रशस्य अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य प्रणिपत्य एकान्ते प्राञ्जलिः स्थिताभून्नमस्यन्ती । अथ खलु राजा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषो रत्नप्रभां श्रेष्ठिदारिकामवलोक्य एवमाह - साधु साधु दारिके, या त्वं परसत्त्वगुणविशेषज्ञानाभिज्ञामवतीर्णा । दुर्लभास्ते दारिके सत्त्वाः सर्वलोके, ये परसत्त्वगुणानधिमुच्यन्ते । न शक्यं दारिकै तमोवृतैरकृतज्ञसत्त्वैः बुद्धिविपन्नैः क्षुमितचित्तैर्लुलितसंतानैस्तमश्चेतोभिः प्रकृति- 30 विनष्टाशयैः प्रतिपत्तिच्युतैः परसत्त्वगुणविशेषानभिज्ञैर्बोधिसत्त्वगुणा अवतारितुं तथागतगुणा वा कल्पयितुं सर्वगुणज्ञानविशेषाभिज्ञा वा अनुप्राप्तुम् । असंशयं त्वं दारिके बोधौ 8338
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy