________________
[४०.५७
8337
गण्डन्यूहसूत्रम् । अनिन्दिता पुष्किरिणी सुरम्या
या मध्यमा गन्धजलाभिपूर्णा । तस्यां स्थितोऽभून्नपतिः सदारः
प्रासादमारुह्य सुधर्मतीर्थम् ॥ ५७ ॥ सप्तम्यभूद्या रजनी जलस्य
समुद्भवां तत्र समेव रात्रे । पुनः सशैला सविमानमाला __ चचाल सर्वा धरणी तथैव ॥ ५८ ॥ अनिन्दितायाश्च सहस्रपत्रं ___ मध्यान्महाम्भोरुहमुद्बभूव । सहस्रसूर्यद्युतिमेघजाल
सौमेरुमूर्धप्रभया स्फरित्वा ॥ ५९ ॥ तद्दण्डं शुभसत्त्वगर्भ
मणीन्द्रपत्रं विपुलं विशुद्धम् । महाईजाम्बूनदकर्णिकं च
सुगन्धराजोज्वलकेसराढ्यम् ॥ ६०॥ तत्कणिकायामसि नाथ जातः
पर्यङ्कबद्धन समुच्छ्रयेण । विरोचसे लक्षणचित्रिताङ्गः
शतैः सुराणामभिपूज्यमानः ॥ ६१ ॥ प्रासादपृष्ठादवतीर्य राजा ____ त्वां संप्रगृह्यात्तमनाः कराभ्याम् । देव्यै ददौ वाचमुवाच चैवं
सुतस्तवायं भव तुष्टचित्ता ॥ ६२ ॥ प्रादुर्बभूवैव निधानकोट्यः
प्रमुक्तकोशास्तरवो बभूवुः। तूर्यैश्च निर्नादितमन्तरिक्ष
मभूत्प्रसूते त्वयि लोकनाथे ॥ ६३ ॥ जम्बुध्वजे ये खलु सर्वसत्त्वा
स्त्वद्न्मुखास्तेऽप्यभवन् प्रतीताः। अहोऽस्यनाथस्यजनस्य नाथ
इल्यब्रुवन् प्राञ्जलयश्च भूत्वा ॥ ६४ ॥