SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ -४०.५६] ४० सर्ववृक्षप्रफुल्लनसुखसंवासा । सुमध्यरात्रेष्वथ पडिकारं संकम्पिताभून्नृप भूतधात्री । अनिन्दितायामपि पुष्किरिण्यां मध्येऽवभासोऽर्कसमो वभूव ॥ ४९ ॥ अष्टाङ्गसद्वारिभृतान्यभूवन् पञ्चाप्यथो पुष्किरिणीशतानि । सुजातशाखास्तरवो वभूवुः सुतेजसः पुष्पफलैरुपेताः ॥ ५० ॥ ताः पुष्किरिण्यः सलिलाभिपूर्णा अतर्पयंस्तद्वनमप्यशेषम् । स्त्रोतोभिरस्मात्सरितः प्रवृत्तैः जम्बुध्वजोऽभूत्सलिलप्रपूर्णः ॥ ५१ ॥ द्रुमौषधीसस्यतृणान्यरोहन् वृक्षा बभूवुः फलपुष्पनद्धाः । बीजानि यावन्ति च भूतधात्र्यां सर्वाण्यरोहन्त जलालुतानि ॥ ५२ ॥ जलाप्लुतो यः पृथिवीप्रदेशः सर्वः समोऽसायभवत्तदानीम् । निम्नोन्नताश्चैव महीप्रदेशाः सर्वे समा एव तदा वभूवुः ॥ ५३ ॥ श्वप्रपाता विषमाश्च देशाः समास्तदानीमभवन् क्षणेन । अन्तर्दधुः कण्टकशर्कराद्याः सुरत्नगोत्राणि समुद्बभूवुः ॥ ५४ ॥ आसन्नुदग्रा नरनारिसंघाः तृषार्दिताचैव पपुर्जलानि । उदानयामासुरुदानमेवं सुखानुभावोऽयमहोद्य कस्य ॥ ५५ ॥ ज्योतिःप्रभो भूमिपतिः सपुत्रो दारैः सहामात्यगणैस्तदानीम् । कोटीसहस्रैश्च वृतो जनानां उद्यानयात्रां प्रययावुदग्राम् ॥ ५६ ॥ २५९ 5 10 15 20 25 30 B 135
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy