SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २५८ [४०.४१ 16 गण्डव्यूहसूत्रम् । पूर्वान्ततः क्षेत्रपरंपराभि रनन्तरं यस्य च नामधेयम् । तवानुभावेन च दिवशेषं । सद्धर्मचक्राणि रवन्ति घण्टाः ॥ ४१ ॥ घण्टाखरं स्तेममसज्जमाना __ जम्बुध्वजं व्याप्य रणत्यशेषम् । ब्रह्मेन्द्रदेवेन्द्रजगत्पतीनां स्वकखकं कर्मविधीन् ब्रुवाणः ॥ ४२ ॥ श्रुत्वा च ते घण्टरुतां नृदेवाः ___ स्वकखकां कर्मनिधानकोशान् । विवर्य पापं शुभमाचरन्ति सर्वे प्रतिष्ठन्ति च बुद्धबोधौ ॥ ४३ ॥ ज्योतिःप्रभस्ते नृपतिः पिताभूत् पद्मप्रभा तन्महिषी च माता । अभ्युत्सदे पश्चकषायकाले ___ क धर्मराज्यं प्रतिलब्धवान् सः ॥ ४४ ॥ उद्यानमस्मै विपुलं बभूव सुपुष्पितव्यूहमणिप्रदीपम् । तत्पश्चभिः पुष्किरिणीशतैश्च संशोभितं वृक्षशतैर्वृतानाम् ॥ ४५ ॥ प्रत्येकमासामभवद्विमानं स्थूणासहस्रोच्छूित चारुतीरे। सवेदिकाव्यूहसहस्रचित्रं ___ जालार्धचन्द्रोज्ज्वलितं समन्तात् ॥ ४६ ॥ ववर्ष देवो न यदा बहूनि वर्षाण्यधर्मे बलवत्यपूर्णे। जलं तदा पुष्किरिणीष्वशेषा द्रुमाः सपत्रच्छवयश्च शुष्काः॥ ४७ ॥ • जनिष्यमाणे त्वयि सप्तरात्रा दासन्निमित्तानि तदाद्भुतानि । निःसंशया यानि निरीक्ष्य सत्त्वा बाता हि नः संभवितेत्यवोचन् ॥ ४८॥ 20 8336 25 30
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy