SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २५७ २५७ 5 8335 -४०.४०] ४० सर्ववृक्षप्रफुल्लनसुखसंवासा। मासार्धमासस्य कृतेन पूर्व मकारिषुः संनिधिमुत्पथस्थाः। खलंकृतास्त्वद्य महाईवस्त्राः क्रीडन्ति देवा इव नन्दनस्थाः ॥ ३३ ॥ कामेषु मिथ्याविषमप्रवृत्ता अधर्मरागेण नरा हि रक्ताः । नार्यः कुमार्यः खपराभिगुप्ता __विषं शयन्ति स्म पुरा प्रसज्य ॥ ३४ ॥ वराप्सरोवर्णसमानरूपा दृष्ट्वा सुवस्त्राः समलंकृताश्च । परस्त्रियश्चन्दनलिप्तगात्र्यः तुष्टाः खदारैस्तुषिता इवाध ॥ ३५॥ मृषां च रूक्षां पिशुनामवद्धां पुरा गिरं शाठ्यवशादवोचन् । चतुर्विधां वाचमिमां प्रहाय धर्म चरन्त्यद्य कुदृष्टिमुक्ताः ॥ ३६ ॥ न तूर्यनिर्नादरुतं मनोज्ञ न दिव्यसंगीतिरुतान्यमूनि । सब्रह्मघोषाः कलविङ्कघोषा रुतस्य तुभ्यं पदवीं स्पृशन्ति ॥ ३७॥ छत्रं हि ते तिष्ठति मूर्धसंधौ रत्नैश्चितं काञ्चनजालछत्रम् । वैडूर्यदण्डं शिरिगर्भकोशं समन्ततः सन्मणिकण्ठजालम् ॥ ३८॥ घण्टासमुत्थाभिरुतान्यशेषान् सर्वखराङ्गान्यभिभूय लोके। बुद्धखराङ्गैः सदृशं चरन्तो सद्धर्मनिर्नादरुतं प्रशान्तम् ॥ ३९ ॥ ये श्रुत्व सत्त्वाः शमयन्ति क्केशान् अशेषदिक्क्षेत्रपरंपरासु। कल्पार्णवानां सुगतोदधीनां धीमत्समुद्रस्य च नामचक्रम् ॥ ४०॥ गड, ३३
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy