SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २५६ [४०.२५ 15 गण्डव्यूहसूत्रम् । अधर्मचारीण नराण चैव __अविद्यमोहान्धतमोवृतानाम् । दृष्टीविपत्त्या विपरीतदर्शिनां बहुभिर्वर्षेभिर्न देवु वर्षति ।। २५ ॥ अवर्षि देवे च विनष्टबीजाः ___ सस्या न रोहन्ति न चैव वृक्षाः । सरस्तडागा नदिस्रोत शुष्का स्तृणोषधीः सर्ववनस्पतीश्च ॥ २६ ॥ नद्यो विशुष्का अभवन्नशेषा उद्यान सर्वे अटवीप्रकाशाः । श्वेतास्थिपूर्णा पृथिवी बभूव तवानुत्पादे सुविशुद्धनेत्रा ॥ २७ ॥ यदा हि ते याचकसंधिसंभुते संतर्पिता याचनकास्तु सर्वे । उत्पद्य मेघेन तदा चतुर्दिशं संतर्पिता निम्नस्थला च सर्वे ॥ २८ ॥ भूयो न चोरा न भटा न धूर्ता __ न हन्यते कश्चन चापि वध्यते । न चाप्यनाथा मरणं व्रजन्ति नाथो भवान् सर्बजगत्यनाथे ॥ २९ ॥ प्राणातिपाताभिरता मनुष्या । हत्वा परांस्तद्रुधिरं पिबन्ति । खादन्ति मांसानि परस्परं ये ते त्वत्प्रदानैर्भुत मैत्रचित्ताः ॥ ३०॥ एकः शतान्तो हि सहस्रसंख्या___ङ्गना तदा चीवरसंवृताभूत् । संछाद्य कायं तृणपर्णचीवरैः प्रेताः क्षुधार्ता इव तेऽविशंस्तदा ॥ ३१ ॥ प्रादुर्बभौ शालिरनुप्तकृष्टः ___ कल्पद्रुमाश्चैव विमुक्तकोशाः । दृश्यन्ति नार्यस्तु नराश्च पण्डिता .. जातो यदा त्वं जगतोऽस्य नाथः ॥ ३२ ॥ 20
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy