________________
B134
-४०.२४] ४० सर्ववृक्षप्रफुल्लनसुखसंवासा। विशुद्धकल्याणाशया उदाराधिमुक्तिगगनगोचरपरहितपरिणतचित्ता बुद्धदर्शनदिगभिमुखा सर्वज्ञज्ञानाभिलाषिणी । सा खलु रत्नप्रभा श्रेष्ठिदारिका सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोपस्य राज्ञो महासिंहासनस्य प्रदक्षिणेन नातिदूरे स्थिताभूत् प्राञ्जलिस्तं राजानं नमस्यन्ती, न च किंचिद्गृह्णाति । एकान्तस्थिता चैवं चित्तमुत्पादयामास-सुलब्धा मे लाभाः, यदहमेवरूपस्य कल्याणमित्रस्य दर्शनसमवधानप्रतिलाभिनीति । सा तस्य सर्वधर्मनिनादच्छत्रमण्डलनिर्घोपस्य । राज्ञोऽन्तिके कल्याणमित्रसंज्ञामनुकम्पकसंज्ञामनुग्राहकसंज्ञां बुद्धसंज्ञामुत्पाद्य मायाशाठ्यापगतेन चित्तेन परमोदारप्रीतिप्रसादप्रामोद्यवेगप्रतिलब्धा स्वान्याभरणानि कायादवमुच्य येन राजा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषः, तेनाभिमुखमक्षैप्सीत् । तानि तस्य सिंहासनवेदिकामध्ये अधः पृथिवीमण्डले प्रतिष्ठितान्यभूवन् । सा तान्याभरणानि प्रविकीर्य एवं प्रणिधिमुत्पादयाभास-यथैष राजा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषोऽनाथामां सत्त्वानामन्धकारप्राप्तानां 10 प्रतिशरणभूतः, तथाहमप्यनागतेऽध्वनि भवेयम् । यामेप धर्मतां जानाति, तामहमपि जानीयाम् । येन यानेनैष निर्यास्यति, तेनाहमपि निर्यायाम् । यस्मिन्नेव मार्गप्रतिपन्नः, तत्राहमपि प्रतिपद्येयम् । यथायमसेचनको रूपेणाक्षयभोगोऽनन्तपरिचारो दुर्धर्षोऽपराजितोऽनवमृधः, तथाहमपि भवेयम् । यत्र यत्र चास्योपपत्तिर्भवेत् , अहमपि तत्र तत्रोपपद्येयमिति ।।
तामेवंचित्तमनसिकारप्रयुक्तामाज्ञाय राजा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषोऽव-15 लोक्य एवमाह-गृहाण दारिके, येन तेऽर्थः । अहं खलु दारिके सर्वास्तिपरित्यागी सर्वसत्त्वसंतर्पणाय प्रतिपन्नः । सा खल्लु समन्वाहता तेन राज्ञा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषेणेति भूयस्या मात्रया प्रसादं प्रत्सलभत । सा प्रसन्नचित्ता उदारविपुलकुशलमूलवेगसंजाता राजानं सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषं तस्यां वेलायामाभिर्गाथाभिरध्यभापत
पूर्वे इयं सालवियूहमेघा ___ अनोपपन्ने त्वयि राजसिंह । निराभिरम्या हततेज आसीत् ।
प्रेतालयो वा यथ भीषणीया ॥ २२॥ प्राणातिपाती मनुजा अभूवन्
अदत्तआदायि असंयताश्च । मृषामभाषन् परुषां च वाचं
पिशुनामबद्धां गिरमप्यवोचन् ॥ २३ ॥ परवाक्यचित्तेषु अभिध्यचेतसो
व्यापन्नचित्ताः परपुद्गलेषु । दृष्टीगतैर्निश्रितपापगोचरा . • मिथ्याप्रयोगेन पतन्ति दुर्गतिम् ॥ २४॥
8334