________________
8332
गण्डव्यूहसूत्रम् ।
[४०.० पुत्रदुहितृभार्याचिरकालविप्रयुक्तस्य अटवीकान्तारविप्रनष्टस्य तदर्शनकामस्य तेषां समवधानेन महती प्रीतिरध्यवसानमुत्पद्यते तदर्शनावितृप्ततया, एवमेव कुलपुत्र राज्ञः सर्वधर्मनिदिच्छत्रमण्डलनिर्घोषस्य तेषां याचनकानां सहदर्शनेन महाप्रीतिवेगाः संजाताः । चित्ततुष्टिसुग्वमवक्रान्तम् । महांश्चित्तोदग्रतावेगः प्रादुर्भूतः । महाग्रामोद्यहर्षवेगः संभूतः । बुद्धवोधा5 दुदारश्रद्धाधिमुक्तिवेमबलं संवर्धितम् । मूलजाता श्रद्धा सर्वज्ञतायां विवर्धिता । सर्वबुद्धभर्माध्याशयविशुद्धिबलमभिविवर्धितम् । बोधिसत्वेन्द्रियकर्मण्यता संभूता । चित्तहर्षपरिपूर्णमहाप्रसादवेग उदपद्यत । विपुलचित्तौद्विल्यवेगेन कल्याणमित्रेन्द्रियाशयता मृदुभूता । तत्कस्य हेतोः ? तथा हि तस्य सर्वधर्मनिर्नादच्छत्रमण्डलनि|पस्य राज्ञः सर्वज्ञतारम्वणप्रयुक्तकस्य सर्वज्ञताधर्मताप्रतिशरणस्य सर्वज्ञतामार्गद्वाराभिमुखस्यं सर्वजगत्सतर्पण10 मनसिकारप्रयुक्तस्य सर्वबुद्धगुणसमुद्रावतारप्रतिपत्त्यभिमुखस्य सर्वमारकर्मक्लेशावरणपर्वतविकिरणप्रयुक्तस्य सर्वतथागतानुशासनीप्रदक्षिणग्राहितावस्थितस्य सर्वकुशलमूलसमुद्रसमन्तमुखसमार्जमाभियोगगर्भस्य सर्वाभिनिवेशोच्चलितसंतानस्य सर्वलोकविपयानभिनिविष्टस्य सर्वधर्मखभावगगनगोचरस्य तेषु सर्वयाचनकेष्वेकपुत्रकसंज्ञा उदपद्यत, मातापितृसंज्ञा दक्षिणीयसंज्ञा कल्याणमित्रसंज्ञा दुर्लभसंज्ञा दुष्करकारकसंज्ञा बहुकरसंज्ञा 15 परमोपकारकसंज्ञा बोधिमार्गोपस्तम्भसंज्ञा आचार्यसंज्ञा शास्तृसंज्ञा उदपद्यत । स तान्
सर्वयाचनकान् यथागतान् यथासंप्राप्तान् यथाकालसंनिपतितान् यथादिग्देशस्थितान् यथावस्तुयाचनकान् यथारुचीन् यथाभिप्रायान् यथाभिकाङ्क्षिणो यथाभिलाषिणो यथावस्तुपर्येषकान् संतर्पयामास अप्रतिहतेन महामैत्रीमण्डलेन याचनकजनापराङ्मुखतया महात्यागरश्मिना सर्वसत्त्वसमप्रयोगेन त्यागमुखेन । सोऽनमन्नार्थिकेभ्यः प्रादात् । पानं पानार्थिकेभ्यो 20 वस्त्रं वस्त्रार्थिकेभ्यः पुष्पाणि पुष्पार्थिकेभ्यः प्रादात् । एवं गन्धधूपमाल्यविलेपनचूर्ण
चीवरच्छत्रध्वजपताकारत्नाभरणासनशयनभवनविमानविहारारामोद्यानतपोवनानि हयगजरथपत्तिवाहनयुग्ययानान्यपि हिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवालजातरूपरजतान्यपि प्रादात्। खगृहविमानान्तःपुरपरिवारानपि, सर्वकोशानपि विवृत्य विभज्य अर्थिकेभ्यः प्रादात्
-यस्य येनार्थः स तं गृह्णातु इति । जनपदानपि जनपदाथिकेभ्यः प्रादात् । सामानपि 28 ग्रामार्थिभ्यो नगराण्यपि नगरार्थिभ्यः प्रादात् । स तान् सर्वयाचनकान् सर्वास्तिपरित्यागतया सर्वसत्त्वेषु समप्रतिपन्नः सर्ववस्तुपरित्यागैरभिच्छादयामास ॥
तेन खल पुनः समयेन रत्नप्रभा नाम श्रेष्ठिदारिका षष्टिकन्यापरिवारा तस्मिन्नेव महायज्ञवाटे संनिपतिताभूत् , अभिरूपा प्रासादिका दर्शनीया परमशुभवर्णपुष्कलतया समन्वागता, सुवर्णवर्णच्छविरभिनीलकेश्यभिनीलनेत्रा मनोज्ञगन्धा ब्रह्मखरा सुवस्त्रा खलंकृता 30 स्मृतिमतिगतिहीधृत्यपत्राप्येर्याचर्यासंपन्ना, गुरुषु सगौरवा, परमसंप्रजन्यचारिणी गम्भीरचेष्टा मेधासंपन्ना धर्माणां ग्रहणचारणप्रतिबोधिषु पूर्वसुकृतकुशलमूला धर्मामिष्यन्दितप्रसनसंताना
१B संक्रान्ताः
5 333 .