________________
-४०..] ४० सर्ववृक्षप्रफुल्लनसुखसंवासा।
२५३ ज्ञानसमन्वितः सुप्रतिष्ठापितधर्मसम्यक्प्रयोगोऽनन्तगुणवर्णनिर्देशः । तस्य खलु पुनः सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य राज्ञो महासिंहासननिषण्णस्योपरि मूर्धसंधावन्तरिक्षे महाच्छत्रमण्डलं प्रादुर्बभूव विचित्रोद्विद्धमणिरत्नदण्डं महामहामणिकोशगर्भसर्वरनशलाकाशतसहस्रसम्यग्विततमनेकार्चिःश्रीतेजोज्ज्वलितव्यूहं जाम्बूनदकनकप्रभाखरविशुद्धच्छदनं नानारत्नभक्तिचित्रहेमजालात्यन्तव्यूहच्छदनोपेतं विविधमुक्ताहाराभिप्रलम्बितं समन्तान्नानारत्नजाल- 5 संछादितं रत्नकिङ्किणीजालसुवर्णमणिघण्टारत्नसूत्रदामोपनिवद्धाभिप्रलम्बितं महामणिरत्नहारसमन्ताभिप्रलम्बितव्यूहं दिव्यमधुरमनोज्ञप्रमुक्तशब्दोपचारं सर्वसत्त्वकुशलकर्मपथसंचोदनघण्टाविसृतनिर्घोषम् । स खलु राजा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषो रत्नवालव्यजनैः संवीज्यमानः शक्रदेवेन्द्रातिरेकेण तेजसा ज्वालयन्नुपशोभते स्म । तस्य समनन्तरनिषण्णस्य तस्मिन् सिंहासने सर्वो जनकायोऽभिमुखः प्राञ्जलिः स्थितोऽभूत्तमेव रानानं नमस्यन् ॥ 10
__ अथ खलु सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य राज्ञोऽसंख्येयेषु प्राणिकोटीनियुतशतसहस्रेषु संनिपतितेषु नानायाचनकेषु नानावस्तुपरिग्राहकेषु नानोपकरणाधिमुक्तेषु नानाजातिषु नानागतिपर्यापन्नेषु नानाभिलाषचित्तेषु नानाशयाभिप्रायेषु नानादिक्संनिपतितेषु नानाविषयपरिभोगोपचारेषु नानापरिभोगाभिलाषितचेतनेषु नानाभिप्रायकल्पेषु नानामनुष्यनिकायेषु नानाकुलोपपत्युपपन्नेषु नानाजनपदसमागतेषु नानानिरुक्तिवचनमन्त्र- 15 संस्कारेषु नानाखरमण्डलप्रमोचकेषु नानावस्तुव्यञ्जनेषु नानावचनपदान्युदीरयत्सु, तमेकं महापुण्यसुमेरुमुल्लोकयमानेषु अयमेवैको महाज्ञानपुरुष इति निश्चितचेतनेषु, महापुण्योपस्तब्धो महापुरुषचन्द्रो महात्यागाशयप्रतिलब्ध इत्युन्मुखेषु, बोधिसत्त्वप्रणिधिचेतनानिपतितेषु बोधिसत्त्वप्रणिधिचेतनानिर्मितेषु तं महान्तं याचनकसंनिपातं दृष्ट्वा तेषां याचन- 5 331 कानामन्तिकेऽभूञ्चित्तप्रेम चित्तप्रीतिः चित्तप्रसादः । कल्याणमित्रदर्शनसंज्ञा सुविपुला 20 महाकरुणवेगाः संबभूवुः । अपरान्तकल्पसर्वयाचनकसंतपणाविवर्त्यवीर्यवेगाः प्रादुरभवन् । सर्वजगत्समप्रयोगपरित्यागचित्तस्फरणमेघाः समभवन् ॥
स खलु पुनः सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषो राजा तेषां याचनकानां सहदर्शनेन आत्तमनस्कतरोऽभूत् न त्रिसाहस्रचक्रवर्तिराज्यप्रतिलम्भेन असीमाप्राप्तकल्पपर्यवसानेन, न शक्रत्वाधिपत्यासनप्रतिलम्भेन बहुकल्पकोटीनियुतशतसहस्रपर्यवसानेन, न सुयामदेवराजा-25_B 1323 धिपत्यासनप्रतिलम्भेन बहुकल्पकोटीनियुतशतसहस्रपर्यवसानेन, न संतुषितदेवराजाधिपत्यासनप्रतिलम्भेन बहुकल्पकोटीनियुतशतसहस्रपर्यवसानेन, न सुनिर्मितदेवराजैश्वर्याधिपत्यासनप्रतिलम्भेन अप्रमेयकल्पावसानेन, न वशवर्तिदेवराजाधिपत्यासनप्रतिलम्भेन सुमुखाप्सरमनोहरदेवकन्योपस्थानेन अचिन्त्यकल्पपर्यवसानेन, न ब्रह्मासनेनानभिलाप्यकल्पब्रह्मविहारसुखावसानेन, न आभाखरदेवसुखेन अनन्तकल्पावसानेन, न शुभकृत्स्नदेवसुखेन 30 अतुल्यकल्पाक्षीणेन, न शुद्धावासदेवशान्तविमोक्षसुखविहारेण अपर्यन्तकल्पावसानेन । तद्यथा कुलपुत्र पुरुषस्यैकान्ततृष्णाचरितस्य मातापितृभ्रातृभगिनीमित्रामात्यज्ञातिसालोहित